भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

शम्बूकाः / राधावल्लभः त्रिपाठी

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:06, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

शम्बूकाः स्मो वयम्
शुक्तिरस्माकं कायः,
कायेऽस्मिन् लीनाः
विकटसङ्कटसङ्घाते
स्वकाये वयमन्तर्लीयामहे
मरणाद् विकरणादात्मानं रक्षन्तः।
शुक्तिकाभ्यन्तरं विद्यमानाः
वयमपारे सागरगह्वरे चरामः
मुक्ताः धारयामः
जानीमो वयं
यदा कायं स्वीयं
त्यक्त्वा यास्यामः
तदा शुक्तिका विचित्य नेष्यन्ति मानवाः
गवेषमाणा वेल्लिष्यन्ति
मुक्तास्तेषु
ताः शुक्तयः सन्ति अस्माकं शवाः।
शङ्खा अपि अस्माकमेव देहाः
त्यक्त्वैनान् देहान्
यदा यदा महाप्रयाणं कुर्मः
आदाय शुष्का अस्माकं कायाः
आस्फाल्य आध्माप्य फूत्कृत्य फूत्कृत्य
गल्लौ विस्तार्य
निनादयन्ति
तान् मानवाः
येषु वयं न भवामः।