"सौन्दर्य लहरी / पृष्ठ - १ / आदि शंकराचार्य" के अवतरणों में अंतर
पंक्ति 56: | पंक्ति 56: | ||
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं । | अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं । | ||
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥ | स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥ | ||
+ | |||
+ | चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि | ||
+ | प्रभिन्नाभिः शम्भोर्नवभिरपि मूल प्रकृतिभिः | ||
+ | त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय- | ||
+ | त्रिरेखाभिःसार्धंतवशरणकोणाःपरिणताः ॥११॥ | ||
+ | |||
+ | त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं । | ||
+ | कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः ॥ | ||
+ | यदालोकौत्सुक्यादमरललना यान्ति मनसा । | ||
+ | तपोभिर्दुष्प्रापामपिगिरिशसायुज्यपदवीम् ॥१२॥ | ||
+ | |||
+ | नरं वर्षीयांसं नयनविरसं नर्मसु जडं । | ||
+ | तवापाङ्गालोके पतितमनुधावन्ति शतशः ॥ | ||
+ | गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया । | ||
+ | हटात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥ | ||
+ | |||
+ | क्षितौ षट्पञ्चाशद्द ् विसमधिकपञ्चाशदुदके । | ||
+ | हुताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥ | ||
+ | दिविद्विः षट् त्रिंशन्मनसि च चतुःषष्टिरितिये । | ||
+ | मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥ | ||
+ | |||
+ | शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां । | ||
+ | वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥ | ||
+ | सकृन्न त्वां नत्वा कथमिव सतां संनिदधते । | ||
+ | मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥१५॥ | ||
+ | |||
+ | कविन्द्राणां चेतः कमल वनबाला तपरुचिं | | ||
+ | भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् || | ||
+ | विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी । | ||
+ | गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी II१६II | ||
+ | |||
+ | सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि- | ||
+ | र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः ॥ | ||
+ | स कर्ता काव्यानां भवति महतां भङ्गिसुभगै- | ||
+ | र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः ॥१७॥ | ||
+ | |||
+ | तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि- | ||
+ | र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः ॥ | ||
+ | भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः । | ||
+ | सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥१८॥ | ||
+ | |||
+ | मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो । | ||
+ | हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥ | ||
+ | स सद्यः संक्षोभं नयति बनिता इत्यतिलघु । | ||
+ | त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥१९॥ | ||
+ | |||
+ | किरन्तीमङ्गेभ्यः किरण निकुरुम्बामृतरसं । | ||
+ | हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः ॥ | ||
+ | स सर्पाणाँ दर्पं शमयति शकुन्ताधिप इव । | ||
+ | ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥२०॥ | ||
+ | |||
+ | |||
+ | |||
+ | |||
</poem> | </poem> |
16:17, 14 अप्रैल 2015 का अवतरण
शिवःशक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् |
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ||
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि |
प्रणन्तुं स्तोतुं वा, कथमकृतपुण्यः प्रभवति ||१||
तनियांसं पांसुं तव चरण-पंकेरुह-भवम् |
विरञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ||
वहत्येनं शौरिः कथमपि सहस्त्रेण शिरसाम् |
हरः संक्षुभ्यैनं भजति भसितोद्धूलन विधिम् ||२||
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी |
जडानां चैतन्य स्तवक मकरन्द श्रुति झरी ||
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ |
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ||३||
त्वदन्यः पाणिभ्यामभयवरदो दैवतगण |
स्त्वमेका नैवासि प्रकटितवरा भित्यभिनया ||
भयात्त्रातुं दातुं फलमपिच वाञ्छासमधिकं |
शरण्ये लोकानां तवहि चरणावेव निपुणौ ॥४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं ।
पुरानारी भूत्वा पुररिपुमपि क्षोभमनयत् ॥
स्मरोऽपित्वां नत्वा रतिनयन लेह्येन वपुषा ।
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखा ।
वसन्त सामन्तो मलयमरुदा योधनरथः ॥
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६||
क्वणत्काञ्चिदामाकरिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं ।
स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥
मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं ।
सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥
सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः ।
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं ।
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूल प्रकृतिभिः
त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय-
त्रिरेखाभिःसार्धंतवशरणकोणाःपरिणताः ॥११॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं ।
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः ॥
यदालोकौत्सुक्यादमरललना यान्ति मनसा ।
तपोभिर्दुष्प्रापामपिगिरिशसायुज्यपदवीम् ॥१२॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं ।
तवापाङ्गालोके पतितमनुधावन्ति शतशः ॥
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया ।
हटात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥
क्षितौ षट्पञ्चाशद्द ् विसमधिकपञ्चाशदुदके ।
हुताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥
दिविद्विः षट् त्रिंशन्मनसि च चतुःषष्टिरितिये ।
मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥
शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां ।
वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥
सकृन्न त्वां नत्वा कथमिव सतां संनिदधते ।
मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥१५॥
कविन्द्राणां चेतः कमल वनबाला तपरुचिं |
भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् ||
विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी ।
गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी II१६II
सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः ॥
स कर्ता काव्यानां भवति महतां भङ्गिसुभगै-
र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः ॥१७॥
तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि-
र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः ॥
भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः ।
सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥१८॥
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो ।
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥
स सद्यः संक्षोभं नयति बनिता इत्यतिलघु ।
त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥१९॥
किरन्तीमङ्गेभ्यः किरण निकुरुम्बामृतरसं ।
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः ॥
स सर्पाणाँ दर्पं शमयति शकुन्ताधिप इव ।
ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥२०॥