भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

"सौन्दर्य लहरी / पृष्ठ - ४ / आदि शंकराचार्य" के अवतरणों में अंतर

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज
 
पंक्ति 35: पंक्ति 35:
 
परं  शंभुं  वन्दे परिमिलित पार्श्वं  परचिता ॥
 
परं  शंभुं  वन्दे परिमिलित पार्श्वं  परचिता ॥
 
यमाराध्यन्  भक्त्या  रविशशिशुचीनामविषये ।
 
यमाराध्यन्  भक्त्या  रविशशिशुचीनामविषये ।
निरातंके  लोको  निवसतिहि  भालोकभवने
+
निरातंके  लोको  निवसतिहि  भालोकभवने ॥३६॥
  
 +
विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकम् ।
 +
शिवं सेवेदेवीमपि शिव समान व्यवसिताम् ॥
 +
ययोः कान्त्या यान्त्या शशिकिरण सारूप्य सरणिं ।
 +
विधुतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥३७॥
 +
 +
समुन्मीलत्संवित् कमलमकरन्दैकरसिकं ।
 +
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ॥
 +
यदालापादष्टादशगुणितविद्यापरिणति-
 +
र्यदादत्ते दोषाद्गुणमखियमद्भयः पय इव ॥३८॥
 +
 +
तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम् ।
 +
तमीडे संवर्तं जननि महतीं तांचसमयाम् ॥
 +
यदालोके लोकान्दहति महति क्रोध कलिते ।
 +
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति ॥३९॥
 +
 +
तडित्वन्तं शक्त्या तिमिर परिपन्थिस्फुरणया ।
 +
स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषम् ॥
 +
तव श्यामंमेघं  कमपि मणिपूरैक शरणम् ।
 +
निषेवे वर्षन्तं हरमिहिर तप्तम् त्रिभुवनम् ॥४०॥
  
 
</poem>
 
</poem>

21:59, 23 अप्रैल 2015 के समय का अवतरण

चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितः तत्तत्सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैक घटना-
स्वतन्त्रंते तंत्रं क्षितितल मवातीतरदिदम् ॥३१॥

शिवः शक्तिः कामः क्षिति रथ रविः शीतकिरण
स्मरो हंसः शक्र स्तदनु च परा मार हरयः ॥
अमी हृल्लेखा भिस्तिसृभिरवसानेषु घटिता ।
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधि महा भोग रसिकाः ॥
भजन्ति त्वां चिन्तामणि गुण निबद्धा क्षवलयाः ।
शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥३३॥
                            
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुह युगम् ।
तवात्मानं मन्ये भगवतिनवात्मान मनघं ॥
अतः शेषः शेषीत्ययमुभय साधारणतया ।
स्थितः संबन्धोवां समरस परानन्दपरयोः ॥३४॥
                            
मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि ।
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥

तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।
परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
निरातंके लोको निवसतिहि भालोकभवने ॥३६॥

विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकम् ।
शिवं सेवेदेवीमपि शिव समान व्यवसिताम् ॥
ययोः कान्त्या यान्त्या शशिकिरण सारूप्य सरणिं ।
विधुतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥३७॥

समुन्मीलत्संवित् कमलमकरन्दैकरसिकं ।
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ॥
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखियमद्भयः पय इव ॥३८॥

तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम् ।
तमीडे संवर्तं जननि महतीं तांचसमयाम् ॥
यदालोके लोकान्दहति महति क्रोध कलिते ।
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति ॥३९॥

तडित्वन्तं शक्त्या तिमिर परिपन्थिस्फुरणया ।
स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषम् ॥
तव श्यामंमेघं कमपि मणिपूरैक शरणम् ।
निषेवे वर्षन्तं हरमिहिर तप्तम् त्रिभुवनम् ॥४०॥