"सौन्दर्य लहरी / पृष्ठ - ५ / आदि शंकराचार्य" के अवतरणों में अंतर
छो |
|||
पंक्ति 42: | पंक्ति 42: | ||
प्रकोष्ठे मुष्टौच स्थगयति निगूढान्तरमुमे ॥४७॥ | प्रकोष्ठे मुष्टौच स्थगयति निगूढान्तरमुमे ॥४७॥ | ||
− | अहः सुते सव्यं तव नयन मर्कात्मकतया | + | अहः सुते सव्यं तव नयन मर्कात्मकतया । |
− | त्रियामां वामं ते रजनीनायकतया | + | त्रियामां वामं ते रजनीनायकतया ॥ |
− | तृतीया ते दृष्टिर्दरदलित हेमाम्बुज रुचिः | + | तृतीया ते दृष्टिर्दरदलित हेमाम्बुज रुचिः । |
− | समाधत्ते | + | समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥ |
+ | |||
+ | विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः । | ||
+ | कृपाधाराऽऽधारा किमपि मधुरा भोगवतिका ॥ | ||
+ | अवन्ती दृष्टीस्ते बहुनगर विस्तार विजया । | ||
+ | घ्रुवं तत्तन्नामव्यवहरण योग्या विजयते ॥४९॥ | ||
+ | |||
+ | कवीनां सन्दर्भस्तबक मकरन्दैक रसिकं । | ||
+ | कटाक्षव्या क्षेप भ्रमरकलभौ कर्ण युगलम् ॥ | ||
+ | अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला । | ||
+ | वसूया संसर्गादलिकनयनं किंचिद्ऽरुणाम् ॥५०॥ | ||
</poem> | </poem> |
06:32, 10 अक्टूबर 2015 का अवतरण
तवाधारे मूले सह समयया लास्यपरया ।
नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥
गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥
सनीडेयच्छायाच्छरणशबलं चन्द्र शकलम् ।
धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥४२॥
धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।
घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥
वहन्ती सिन्दुरं प्रबल कबरी भारतिमिर-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।
तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-
परीवाहस्त्रोतः सरणिरिव सीमन्त सरणिः ॥४४॥
अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।
सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः ॥४५॥
ललाटं लावण्य द्युतिविमलमाभाति तव यद्-
द्वितीयं तन्मन्ये मकुटघटितं चन्द्र शकलम् ॥
विपर्यासन्यासादुभयमपि संभूय च मिथः ।
सुधा लेपस्यूतिः परिणमति राकाहिमकरः ॥४६॥
भ्रुवौ भुग्ने किञ्चिद् भुवन भयभङ्गव्यसनिनि ।
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुनम् ॥
धनुर्मन्ये सव्येतरकर गृहीतं रतिपतेः ।
प्रकोष्ठे मुष्टौच स्थगयति निगूढान्तरमुमे ॥४७॥
अहः सुते सव्यं तव नयन मर्कात्मकतया ।
त्रियामां वामं ते रजनीनायकतया ॥
तृतीया ते दृष्टिर्दरदलित हेमाम्बुज रुचिः ।
समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः ।
कृपाधाराऽऽधारा किमपि मधुरा भोगवतिका ॥
अवन्ती दृष्टीस्ते बहुनगर विस्तार विजया ।
घ्रुवं तत्तन्नामव्यवहरण योग्या विजयते ॥४९॥
कवीनां सन्दर्भस्तबक मकरन्दैक रसिकं ।
कटाक्षव्या क्षेप भ्रमरकलभौ कर्ण युगलम् ॥
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला ।
वसूया संसर्गादलिकनयनं किंचिद्ऽरुणाम् ॥५०॥