भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
"संस्कृत-लोकगीतम्। / शास्त्री नित्यगोपाल कटारे" के अवतरणों में अंतर
Kavita Kosh से
(नया पृष्ठ: प्रेषितं न किञ्चित् सन्देशम् हा गतः प्रियतमः विदेशम्।। खण्डि…) |
(कोई अंतर नहीं)
|
23:04, 31 जुलाई 2010 का अवतरण
प्रेषितं न किञ्चित् सन्देशम् हा गतः प्रियतमः विदेशम्।।
खण्डितं तु सप्तपञ्च वचनानुबन्धं कस्यचिदागच्छति षडयन्त्रस्यगन्धं। दृश्यते ह्रदि अपरा प्रवेशम् । हा गतः प्रियतमः विदेशम्।।
रोचते न तेन बिना शुष्क शुष्क दिवसः निशा भवति भयावहा क्रमश;क्रमशः कष्टकरं सर्वं परिवेशम्। हा गतः प्रियतमः विदेशम्।।
श्रूयते तु अहर्निशं स्वासुः अपशब्दं दैनिकोपियोगि वस्तु अस्ति नोपलब्धं रोचते न स्वशुरोपदेशम् । हा गतः प्रियतमः विदेशम्।।
वैरी प्रत्यागतॊ न भवति एक-मासः आगतं न पत्रं न कृतं दूरभाषः प्रेषितं च नैव धनादेशम्। हा गतः प्रियतमः विदेशम्।।
न जानेप्यहं तेन त्यक्ता किमर्थम् अधुनाहं थकितास्मि पथ दर्शं-दर्शं किमर्थं ददाति ह्रदय क्लेशम्। हा गतः प्रियतमः विदेशम्।।