भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
आगच्छ कृष्ण!/ शास्त्री नित्यगोपाल कटारे
Kavita Kosh से
Shubham katare (चर्चा | योगदान) द्वारा परिवर्तित 22:54, 31 जुलाई 2010 का अवतरण (नया पृष्ठ: हे कृष्ण माधव मुरारे राधा सखे हे हरे ! आगच्छ मामुद्धराऽहं मग्नोस…)
हे कृष्ण माधव मुरारे राधा सखे हे हरे ! आगच्छ मामुद्धराऽहं मग्नोस्मि भवसागरे।।
अभवत्तु धर्मस्य ग्लानिः अधर्मस्य जातं प्रभुत्वम्। खलु शास्त्रनीत्याश्च हानिः गतं संकटे मानवत्वम्।। गीता स्वकथनानुसारेण आगच्छ नटनागर हे! हे कृष्ण माधव मुरारे राधा सखे हे हरे !
स्वार्थाय मिथ्यात्र प्रीतिः अपूर्णाऽक्षमा दण्डनीतिः। भ्रष्टाऽभवल्लोकरीतिः स्वैरंगता राजनीतिः ।। आगच्छ हे चक्रपाणे! नीत्वा सुदर्शनं करे।। हे कृष्ण माधव मुरारे राधा सखे हे हरे !
लुप्तं मधुर संगीतं बहु श्रूयते पाप गीतम्। ननु दृश्यते नग्नतैव गतं क्व विशिष्टं अतीतम्।। संस्थापनार्थं कलायाः आगच्छ मुरलीधर हे! हे कृष्ण माधव मुरारे राधा सखे हे हरे ! दधि दुग्ध तक्राण्यपेयं दुश्चूषकं बालप्रेयं । पेप्सी द्रवं नंमधेयं सर्व प्रियं शितपेयं।। पञ्चामृत प्रिय गोपालं नवनीत चौरं भजे। हे कृष्ण माधव मुरारे राधा सखे हे हरे !