त्रिपाद्विभूतिमहानारायणोपनिषत् / प्रथमोऽध्यायः / संस्कृतम्
यत्रापह्नवतां याति स्वाविद्यापदविभ्रमः।
तत्त्रिपान्नारायणाख्यं स्वमात्रमवशिष्यते॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः॥
अथ परमतत्त्वरहस्यं जिज्ञासुः परमेष्ठी देवमानेन सहस्रसंवत्सरं तपश्चचार।
सहस्रवर्षेऽतीतेऽत्युग्रतीव्रतपसा प्रसन्नं भगवन्तं महाविष्णुं ब्रह्मा परिपृच्छति भगवन् परमतत्त्वरहस्यं मे ब्रूहीति।
परमतत्त्वरहस्यवक्ता त्वमेव नान्यः कश्चिदस्ति तत्कथमिति।
तदेवोच्यते।
त्वमेव सर्वज्ञः।
त्वमेव सर्वशक्तिः।
त्वमेव सर्वाधारः।
त्वमेव सर्वस्वरूपः।
त्वमेव सर्वेश्वरः।
त्वमेव सर्वप्रवर्तकः।
त्वमेव सर्वपालकः।
त्वमेव सर्वनिवर्तकः।
त्वमेव सदसदात्मकः।
त्वमेव सदसद्विलक्षणः।
त्वमेवान्तर्बहिर्व्यापकः।
त्वमेवातिसूक्ष्मतरः।
त्वमेवातिमहतो महीयान्।
त्वमेव सर्वमूलाविद्यानिवर्तकः।
त्वमेवाविद्याविहारः।
त्वमेवाविद्याधारकः।
त्वमेव विद्यावेद्यः।
त्वमेव विद्यास्वरूपः।
त्वमेव विद्यातीतः।
त्वमेव सर्वकारणहेतुः।
त्वमेव सर्वकारणसमष्टिः।
त्वमेव सर्वकारणव्यष्टिः।
त्वमेवाखण्डानन्दः।
त्वमेव परिपूर्णानन्दः।
त्वमेव निरतिशयानन्दः।
त्वमेव तुरीयतुरीयः।
त्वमेव तुरीयातीतः।
त्वमेव अनन्तोपनिषद्विमृग्यः।
त्वमेवाखिलशास्त्रैर्विमृग्यः।
त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिलामरैरखिलागमैर्विमृग्यः।
त्वमेव सर्वमुमुक्षुभिर्विमृग्यः।
त्वमेवामृतमयैर्विमृग्यः।
त्वमेवामृतमयस्त्वमेवामृतमयस्त्वमेवामृतमयः।
त्वमेव सर्वं त्वमेव सर्वं त्वमेव सर्वम्।
त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वमेवाखिलमोक्षसाधनम्।
न किञ्चिदस्ति त्वद्व्यतिरिक्तम्।
त्वद्व्यतिरिक्तं यत्किंचित्प्रतीयते तत्सर्वं बाधितमिति निश्चयम्।
तस्मात्त्वमेव वक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता त्वमेव सर्वं त्वमेव सदा ध्येय इति सुनिश्चितः।
परमतत्त्वज्ञस्तमुवाच महाविष्णुरतिप्रसन्नो भूत्वा साधुसाध्विति साधुप्रशंसापूर्वं सर्वं परमतत्त्वरहस्यं ते कथयामि।
सावधानेन श्रुणु।
ब्रह्मन् देवदर्शीत्याख्याथर्वणशाखायां परमतत्त्वरहस्याख्याथर्वण- महानारायणोपनिषदि गुरुशिष्यसंवादः पुरातनः प्रसिद्धतया जागर्ति।
पुरा तत्स्वरूपज्ञानेन महान्तः सर्वं ब्रह्मभावं गताः।
यस्य श्रवणेन सर्वबन्धः प्रविनश्यन्ति।
यस्य ज्ञानेन सर्वरहस्यं विदितं भवति।
तत्स्वरूपं कथमिति।
शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तस्तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमासाद्य प्रदक्षिणपूर्वकं दण्डवत्प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् गुरो मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति।
अत्यादरपूर्वकमिति हर्षेण शिष्यं बहूकृत्य गुरुर्वदति।
परमतत्त्वरहस्योपनिषत्क्रमः कथ्यते सवाधानेन श्रूयताम्।
कथं ब्रह्म।
कालत्रयाबाधितं ब्रह्म।
सर्वकालाबाधितं ब्रह्म।
सगुणनिर्गुणस्वरूपं ब्रह्म।
आदिमध्यान्तशून्यं ब्रह्म।
सर्वं खल्विदं ब्रह्म।
मायातीतं गुणातीतं ब्रह्म।
अनन्तमप्रमेयाखण्डपरिपूर्णं ब्रह्म।
अद्वितीयपरमानन्दशुद्धबुद्ध- मुक्तसत्यस्वरूपव्यापकाभिन्नापरिच्छिनं ब्रह्म।
सच्चिदानन्दस्वप्रकाशं ब्रह्म।
मनोवाचामगोचरं ब्रह्म।
अमितवेदान्तवेद्यं ब्रह्म।
देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म।
सर्वपरिपूर्णं ब्रह्म तुरीयं निराकारमेकं ब्रह्म।
अद्वैतमनिर्वाच्यं ब्रह्म।
प्रणवात्मकं ब्रह्म।
प्रणवात्मकत्वेनोक्तं ब्रह्म।
प्रणवाद्यखिलमन्त्रात्मकं ब्रह्म।
पादचतुष्टयात्मकं ब्रह्म।
किं तत्पादचतुष्टयं ब्रह्म भवति।
अविद्यापादः सुविद्यापादश्चानन्दपादस्तुरीयपादस्तुरीय इति।
तुरीयपादस्तुरीयतुरीयं तुरीयातीतं च।
कथं पादचतुष्टयस्य भेदः।
अविद्यापदः प्रथमः पादो विद्यापादो द्वितीयः आनन्दपादस्तृतीयस्तुरीयपादस्तुरीय इति।
मूलाविद्या प्रथमपादे नान्यत्र।
विद्यानन्दतुरीयांशाः सर्वेषु पादेषु व्याप्य तिष्ठन्ति।
एवं तर्हि विद्यादीनां भेदः कथमिति।
तत्तत्प्राधान्येन तत्तद्व्यपदेशः।
वस्तुतस्त्वभेद एव।
तत्राधस्तनमेकं पादमविद्याशबलं भवति।
उपरितनपादत्रयं शुद्धबोधानन्द- लक्षणममृतं भवति।
तच्चानिर्वाच्यमनिर्देश्यमखण्डान- न्दैकरसात्मकं भवति।
तत्र मध्यमपादमध्यप्रदेशेऽमिततेजःप्रवाहाकारतया नित्यवैकुण्ठं विभाति।
तच्च निरतिशयानन्दाखण्डब्रह्मानन्द- निजमूर्त्याकारेण ज्वलति।
अपरिच्छिन्नमण्डलानि यथा दृश्यन्ते तद्वदखण्डानन्दामितवैष्णवदिव्यतेजोराश्यन्तर्गतविलस- न्महाविष्णोः परमं पदं विराजते।
दुग्धोदधिमध्यस्थितामृता- मृतकलशवद्वैष्णवं धाम परमं संदृश्यते।
सुदर्शनदिव्यतेजोऽन्तर्गतः सुदर्शनपुरुषो यथा सूर्यमण्डलान्तर्गतः सूर्यनारायणोऽमितापरिच्छिन्नाद्वैतपरमानन्दलक्षण- तेजोराश्यन्तर्गत आदिनारायणस्तथा संदृश्यते।
स एव तुरीयं ब्रह्म स एव तुरीयातीतः स एव विष्णुः स एव समस्तब्रह्मवाचकवाच्यः स एव परंज्योतिः स एव मायातीतः स एव गुणातीतः स एव कालातीतः स एव अखिलकर्मातीतः स एव सत्योपाधिरहितः स एव परमेश्वरः स एव चिरन्तनः पुरुषः प्रणवाद्यखिलमन्त्रवाचकवाच्य आद्यन्तशून्य आदिदेशकालवस्तुतुरीयसंज्ञानित्यपरिपूर्णः पूर्णः सत्यसंकल्प आत्मारामः कालत्रयाबाधितनिजस्वरूपः स्वयंज्योतिः स्वयंप्रकाशमयः स्वसमानाधिकरणशून्यः स्वसमानाधिकशून्यो न दिवारात्रिविभागो न संवत्सरादिकालविभागः स्वानन्दमयानन्ताचिन्त्यविभव आत्मान्तरात्मा परमात्मा ज्ञानात्मा तुरीयात्मेत्यादिवाचकवाच्योऽद्वैतपरमानन्दो विभुर्नित्यो निष्कलङ्को निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चिदिति य एवं वेद स पुरुषस्तदीयोपासनया तस्य सायुज्यमेतीत्यसंशयमित्युपनिषत्॥
इत्याथर्वणमहानारायणोपनिषदि पादचतुष्टयस्वरूपनिरूपणं
नाम प्रथमोऽध्यायः॥१॥