जाबालदर्शनोपनिषत् / द्वितीयः खण्डः / संस्कृतम्
तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम्।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम्॥१॥
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु॥२॥
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः॥३॥
को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान्।
इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः॥४॥
यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम्।
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः॥५॥
ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम्।
सर्वत्र विगतस्नेहः संतोषं परमं विदुः।
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते॥६॥
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने।
अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया॥७॥
रागाद्यपेतं हृदयं वागदुष्टानृतादिना।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम्॥८॥
सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम्।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः॥९॥
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत्।
तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता।
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत्॥१०॥
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः।
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः॥११॥
कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके।
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया॥१२॥
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा॥१३॥
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः।
मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः॥१४॥
उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते॥१५॥
उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत्।
नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत्॥१६॥
इति द्वितीयः खण्डः॥२॥