महोपनिषत् / आरंभ / संस्कृतम्
यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम्।
परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः॥
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम- स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥
ॐ शान्तिः शान्तिः शान्तिः॥
अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः।
स एकाकी न रमते।
तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते।
तस्मिन्पुरुषाश्चतुर्दश जायन्ते।
एका कन्या।
दशेन्द्रियाणि मन एकादशं तेजः।
द्वादशोऽहङ्कारः।
त्रयोदशकः प्राणः।
चतुर्दश आत्मा।
पञ्चदशी बुद्धिः।
भूतानि पञ्च तन्मात्राणि।
पञ्च महाभूतानि।
स एकः पञ्चविंशतिः पुरुषः।
तत्पुरुषं पुरुषो निवेश्य नास्य प्रधानसंवत्सरा जायन्ते।
संवत्सरादधिजायन्ते।
अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत।
तस्य ध्यानान्तःस्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते।
बिभ्रच्छ्रियं यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे समाश्रितानि।
तस्मादीशानो महादेवो महादेवः।
अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत।
तस्य ध्यानान्तःस्थस्य ललाटात्स्वेदोऽपपत्।
ता इमाः प्रतता आपः।
ततस्तेजो हिरण्मयमन्डलम्।
तत्र ब्रह्मा चतुर्मुखोऽजायत।
सोऽध्याय्त्।
पूर्वाभिमुखो भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता।
पश्चिमाभिमुखो भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता।
उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं छन्दः सामवेदः सूर्यो देवता।
दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ छन्दोऽथर्ववेदाः सोमो देवता।
सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम्।
विश्वतः परमं नित्यं विश्वं नारायणं हरिम्।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति।
पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम्।
पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम्।
हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च।
तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम्।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता।
स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत्॥