उपदेशसाहस्री / उपदेश १२ / आदि शंकराचार्य
प्रकाशस्थं यथा देहं सालोकमभिमन्यते।
द्रष्ट्राभासं तथा चित्तं द्रष्टाहमिति मन्यते॥
यदेव दृष्यते लोके तेनाभिन्नत्वमात्मनः।
प्रपद्यते ततो मूढस्तेनात्मानं न विन्दति॥
दशमस्य नवात्मत्वप्रतिपत्तिवदात्मनः।
दृश्येषु तद्वदेवायं मूढो लोको न चान्यथा॥
त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिकौ।
एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद॥
देहाभिमानिन् दुःखं नादेहस्यस्वभावतः।
स्वापवत् तत्प्रहाणाय तत् त्वमित्युच्यते दृशेः॥
दृशेश्छाया यदारूढा मुखच्छायेव दर्शने।
पश्यंस्तं प्रत्ययं योगी दृष्ट आत्मेति मन्यते॥
तं च मूढं च यद्यन्यं प्रत्ययं वेत्ति नो दृशेः।
स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः॥
विज्ञातेर्यस्तु विज्ञाता स त्वमित्युच्यते यतः।
स स्यादनुभवस्तस्य ततोऽन्योऽनुभवो मृषा॥
दृशिरूपे सदा नित्ये दर्शनादर्शने मयि।
कथं स्यातां ततो नान्य इष्यतेऽनुभवस्ततः॥
यत्स्थस्तापो रवेर्देहे दृशेः स विषयो यथा।
सत्त्वस्थस्तद्वदेवेह दृशेः स विषयस्तथा॥
प्रतिषिद्धेदमंशो ज्ञः खमिवैकरसोऽद्वयः।
नित्यमुक्तस्तथा शुद्धः सोऽहं ब्रह्मास्मि केवलः॥
विज्ञातुर्नैव विज्ञाता परोऽन्यः संभवत्यतः।
विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा॥
यो वेदालुप्तदृष्टित्वमात्मनोऽकर्तृतां तथा।
ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः॥
ज्ञातैवाहमविज्ञेयः शुद्धो मुक्तः सदेत्यपि।
विवेकी प्रत्ययो बुद्धेर्दृश्यत्वान् नाशवत्त्वतः॥
अलुप्ता त्वात्मनो दृष्टिर्नोत्पाद्या कारकैर्यतः।
दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता॥
देहात्मबुद्ध्यपेक्षत्वादात्मनः कर्तृता मृषा।
नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा॥
कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः।
कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम्॥
एवं शास्त्रानुमानाभ्यां स्वरूपेऽवगते सति।
नियोज्योऽहमिति ह्येषा सत्या बुद्धिः कथं भवेत्॥
यथा सर्वान्तरं व्योम व्योम्नोऽप्यभ्यन्तरो ह्यहम्।
निर्विकारोऽचलः शुद्धोऽजरो मुक्तः सदाद्वयः॥