भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
मालवी / राधावल्लभः त्रिपाठी
Kavita Kosh से
सेवानिवृत्तेः सोपानसरणिम् अवरोहतः
धरित्रीं स्पृशतः स्म चरणौ
वानप्रस्थसंन्यासयोः सन्धौ अवस्थितस्य
मम मनसो नैकानि आवरणानि त्रुटितानि।
तदा
ब्रह्मसूत्रशाङ्करभाष्यस्य
पृथुलकायग्रन्थम्
अधः अवस्कन्ना
काव्यप्रकाशपुस्तकस्य पृष्ठतो –
यस्मिन् कस्मिन्नपि कोणे निलीना
मम अनवधानताया एकस्मिन् क्षणे
परावृत्ता अकस्मात् -
प्राप्ता मां मालवी।
यथा क्रौञ्चवधे जाते
कवेः शोकः
श्लोके स्फुटितः स्यात्
क्वचित् द्वित्राणि वाक्यानि मालव्यां
पत्न्या आलपतो मे वक्त्रात्
सहसैव समुद्गतानि
इदानीं चिन्तयामि
कः स
य एवमकस्मान्मालवीमस्फोरयत्
स विगतेषु षष्टिवर्षेषु क्व निलीन आसीत्?
अहं स्वाभ्यन्तरमवलोकयामि
तस्य प्रत्यभिज्ञायै।