भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

उपदेशसाहस्री / उपदेश १४ / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

स्वप्नस्मृत्योर्घटादेर्हि रूपाभासः प्रदृश्यते।
 पुरा नूनं तदाकारा धीर्दृष्टेत्यनुमीयते॥

भिक्षाम३अन् यथा स्वप्ने दृष्टो देहो न स स्वयम्।
 जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वादन्य एव सः॥

मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा।
 रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम्॥

व्यञ्जको वा यथालोको व्यञ्ग्यस्याकारतामियात्।
 सर्वार्थव्यञ्जकत्वाद् धिरर्थाकारा प्रदृश्यते॥

धीरेवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च।
 न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः॥

व्यञ्जकत्वं तदेवास्या रूपाद्याकारदृश्यता।
 द्रष्टृत्वं च दृशेस्तद्वद् व्याप्तिः स्याद् धिय उद्भवे॥

चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः।
 मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्यहम्॥

करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः।
 जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मात् ततोऽन्यथा॥

बुद्ध्यादीनामनात्मत्वं हेयोपादेयरूपतः।
 हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते॥

सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने।
 बाह्यमाभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते॥

य आत्मा नेति नेतीति परापोहेन शेषितः।
 स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम्॥

अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम्।
 कार्यवान् स्यां कथं चाहं विमृशेदेवमञ्जसा॥

पारगस्तु यथा नद्यास्तत्स्थः पारं यियासति।
 आत्मज्ञश्चेत् तथा कार्यं कर्तुमन्यदिहेच्छति॥

आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि।
 अ मोक्षार्हः स विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम्॥

सादित्यं हि जगत् प्राणस्तस्मान् नाहर्निशैव वा।
 प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदोऽद्वये॥

न स्मरत्यात्मनो ह्यात्मा विस्मरेद् वाप्यलुप्तचित्।
 मनोऽपि स्मरतीत्येतज् ज्ञानमज्ञानहेतुजम्॥

ज्ञातुर्ज्ञेयः परो ह्यात्मा सोऽविद्याकल्पितः स्मृतः।
 अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः॥

कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्यजम्।
 ममाहं चेति यो भावस्तस्मिन् कस्य कुतो भवेत्॥

आत्मा ह्यात्मीय इत्येष भावोऽविद्याप्रकल्पितः।
 आत्मैकत्वे ह्यसौ नास्ति बीजाभावे कुतः फलम्॥

द्रष्टृ श्रोतृ तथा मन्तृ विज्ञात्रेव तदक्षरम्।
 द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहमक्षरम्॥

स्थावरं जञ्गमं चैव द्रष्टृत्वादिक्रियायुतम्।
 सर्वमक्षरमेवातः सर्वस्यात्माक्षरं त्वहम्॥

अकार्यशेषमात्मानमक्रियात्मक्रियाफलम्।
 निर्ममं निरहंकारं यः पश्यति स पश्यति॥

ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः।
 आत्मनीति यदि ज्ञातमाध्वं स्वस्थाः किमीहितैः॥

योऽहंकर्तारमात्मानं तथा वेत्तारमेव यः।
 वेत्त्यनात्मज्ञ एवासौ योऽन्यथाज्ञः स आत्मवित्॥

यथान्यत्वेऽपि तादात्म्यं देहादिष्वात्मनो मतम्।
 तथाकर्तुरविज्ञानात् फलकर्मात्मतात्मनः॥

दृष्टिः श्रुतिर्मतिर्ज्ञातिः स्वप्ने दृष्टा जनैः सदा।
 तासामात्मस्वरूपत्वादतः प्रत्यक्षतात्मनः॥

परलोकभयं यस्य नास्ति मृत्युभयं तथा।
 तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीश्वराः॥

ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः।
 तृष्णा चेत् सर्वतश्छिन्ना सर्वदैन्योद्भवाशुभा॥

अहमित्यात्मधीर्या च मम्मेत्यात्मीयधीरपि।
 अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा॥

बुद्ध्यादौ सत्युपाधौ च तथासत्यविशेषता।
 यस्य चेदात्मनो ज्ञाता तस्य कार्यं कथं भवेत्॥

प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसेऽद्वये ।
 उत्पन्नात्मधियो ब्रूत किमन्यत् कार्यमिष्यते॥

आत्मानं सर्वभूतस्थममित्रं चात्मनोऽपि यः।
 पश्यन्निच्छत्यसौ नूनं शीतीकर्तुं विभावसुम्॥

प्रज्ञाप्राणानुकार्यात्मा छायेवाक्षादिगोचरः।
 ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः॥

अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः।
 व्योमवद् व्यापिनो ह्यस्य कथं कार्यं भवेन् मम॥

असमाधीं न पश्यामि निर्विकारस्य सर्वदा।
 ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः॥

गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च।
 नोर्ध्वं नाधस्तिरो वापि निष्कलस्यागुणत्वतः॥

चिन्मात्रज्योतिषो नित्यं तमस्तस्मिन् न विद्यते।
 कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते॥

अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का।
 अप्राणो ह्यमनाः शुभ्र इति सत्यं श्रुतेर्वचः॥

अकालत्वाददेशत्वाददिकत्वादनिमित्तः।
 आत्मनो नैव कालादेरपेक्षा ध्यायतः सदा॥

यस्मिन् देवाश्च वेदश्च पवित्रं कृत्स्नमेकताम्।
 व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत्॥

न चास्ति शब्दादिरनन्यवेदनः परस्परेणापि न चैव दृश्यते।
 परेण दृश्यास्तु यथा रसादयस्तथैव दृश्यत्वत एव दैहिकाः॥

अहं ममेत्येषणयत्नविक्रियाः सुखादयस्तद्वदिह प्रदृश्यतः।
 दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत्॥

अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता।
 चितिस्वरूपेण समन्ततोऽर्कवत् प्रकाश्यमानासिततात्मनो ह्यतः॥

दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्यवस्थितः।
 अतो न तस्मादपरोऽस्ति वेदिता परोऽपि तस्मादत एक ईश्वरः॥

शरीरबुद्ध्योर्यदि चान्यदृश्यता निरात्मवादाः सुनिराकृता मया।
 परश्च सिद्धो ह्यविशुद्धिकर्मतः सुनिर्मलः सर्वगतोऽसितोऽद्वयः॥

घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः।
 अशुद्ध्यचिद्रूपविकारदोषता मतेर्यथा वारयितुं न पार्यते॥

यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा।
 समस्तभूतेषु सदैव तेष्वयं समः सदात्मा ह्यजरोऽमरोऽभयः॥

अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः।
 अविद्यया ह्यात्मनि मूढदृष्टिभिरपोह्य नेतीति अवशेषितो दृशिः॥

प्रबोधरूपं मनसोऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यतेऽर्थवत्।
 तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश्च दृश्यतः॥

स्वभावशुद्धे गगने घनादिके मलेऽपायते सति चाविशेषता।
 यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ॥