भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
मार्गः / कौशल तिवारी
Kavita Kosh से
मार्गो
न गच्छति कुत्रापि
स स्थितः सदैव
स्वस्थानैव
विना दूषणं
विना महत्त्वाकांक्षाम्
अहमैव चलामि तस्मिन्
विना श्रान्तिं
विना विश्रामं
लक्ष्यस्येच्छायाम्,
भ्रमामि सततं
त्यक्त्वा सहपथिकान्
सार्थस्याग्रतः,
विस्मरामि यत्
मार्गो
न गच्छति कुत्रापि॥
नदी
नदी यदा प्रवहति
सैव केवलं न प्रवहति
प्रवहति तया साकं
समयोऽपि,
मार्गागतैः सह
न करोति मोहं
न च विरमति प्रवाहेण,
तरंगिणी सा
अस्ति सर्वेषां
नास्ति चापि,
तरुणी सा
स्वीकरोति तं
यः स्वं विस्मृत्य
भवति स्वयमपि नदी॥