आर्यास्माकं प्रेयःपुत्री / बलराम शुक्ल
आर्यास्माकं प्रेयःपुत्री कुर्वत्यस्मान् नित्यं तृप्तान्।
चान्द्री लेखेवास्मद्गेहे दिव्याल्लोकादङ्कं प्राप्ता॥
वर्णे वर्णे गौरी गौरी केशे केशे श्यामा श्यामा।
कोपे कोपे मिथ्या मिथ्या हासे हासे विद्युन्माला॥
गण्डे तस्याः सर्वा वाटी नेत्रेऽस्याः सर्वं पीयूषम्।
ओष्ठे तस्याः सर्वो रागः किं नोच्येतास्मत्सर्वस्वम्॥
उद्भिद्यद्दन्तोत्थाः कण्डूर्हन्तुं हस्तं संरम्भेण।
नीत्वा वर्स्वाभ्यां सा मोघं कृन्तन्ती हर्षायालं नः॥
मो मो गो गोऽस्पष्टां वाचं वारं वारं सोत्का सोक्त्वा।
मातुः क्रोडे दन्तैर्हीनैर्हासैर्युक्ता विद्युन्माला॥
अस्पष्टाभिर्वाग्भिर्युक्ता सर्वं हार्दं वृत्तं ब्रूते।
पादैर्वैषम्याक्तैर्धत्ते शीघ्रं स्वान्ते स्थानंए चित्रम्॥
मात्रा दुग्धं पित्रा प्रेम प्राप्याशीर्वाचोऽन्यैस्तातैः।
नूत्नेन्दोर्लेखेवैधन्तामङ्गान्यानन्दैर्नः साकम्॥