उदयति मिहिरो,विगलति तिमिरो
भुवनं कथमभिरामम्
प्रचरति चतुरो मधुकरनिकरो
गुंजति कथमविरामम्॥
विकसति कमलं,विलसति सलिलम्
पवनो वहति सलीलम्
दिशिदिशि धावति,कूजति नृत्यति
खगकुलमतिशयलोलम्॥
शिरसि तरूणां रविकिरणानाम्
खेलति रुचिररुणाभा
उपरि दलानाम् हिमकणिकानाम्
कापि हृदयहरशोभा॥