उपदेशसाहस्री / उपदेश १३ / आदि शंकराचार्य
अचक्षुष्ट्वान् न दृष्टिर्मे तथाश्रोतस्य का श्रुतिः।
अवाक्त्वान् न तु वक्तिः स्यादमनस्त्वान् मतिः कुतः॥
अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता।
विद्याविद्ये ततो न स्तश्चिन्मात्रज्योतिषो मम॥
नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः।
अमृतस्याक्षरस्यैवमशरीरस्य सर्वदा॥
जिघत्सा वा पिपासा वा शोकमोहौ जरामृती।
न विद्यन्तेऽशरीरत्वाद् व्योमवद् व्यापिनो मम॥
अस्पर्शत्वान् न मे स्पृष्टिर्नाजिह्वत्वाद् रसज्ञता।
नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा॥
या तु स्यान् मानसी वृत्तिश्चाक्षुष्का रूपरञ्जना।
नित्यमेवात्मनो दृष्ट्या नित्यया दृश्यते हि सा॥
तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः।
स्मृती रागादिरूपा च केवलान्तर्मनस्यपि॥
मानस्यस्तद्वदन्यस्य दृश्यन्ते स्वप्नवृत्तयः।
द्रष्टुर्दृष्टिस्ततो नित्या शुद्धानन्ता च केवला॥
अनित्या साविशुद्धेति गृह्यतेऽत्राविवेकतः।
सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया॥
मूढया मूढ इत्येवं शुद्धया शुद्ध इत्यपि।
मन्यते सर्वलोकोऽयं येन संसारं ऋच्छति॥
अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्यजम्।
नित्यमुक्तमिहात्मानं मुमुक्षुश्चेत् सदा स्मरेत्॥
अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम।
अप्राणो ह्यमनाः शुभ्र इति चाथर्वणे वचः॥
शब्दादीनामभावश्च श्रूयते मम काठके।
अप्राणो ह्यमना यस्मादविकारी सदा ह्यहम्॥
विक्षेपो नास्ति तस्मान् मे न समाधिस्ततो मम।
विक्षेपो वा समाधिर्वा मनसः स्याद् विकारिणः॥
अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम।
अमनस्त्वाविकारित्वे विदेहव्यापिनो मम॥
इत्येतद् यावदज्ञानं तावत् कार्यं ममाभवत्।
नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम॥
समाधिर्वासमाधिर्वा कार्यं वान्यत् कुतो भवेत्।
मां हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम्॥
अहं ब्रह्मास्मि सर्वोऽस्मि शुद्धो बुद्धोऽसितः सदा।
अजः सर्वग एवाहमजरश्चामृतोऽक्षयः॥
मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते।
कर्माध्यक्षश्च साक्षी च चेता नित्योऽगुणोऽद्वयः॥
न सच् चाहं न चासच् च नोभयं केवलः शिवः।
न मे संध्या न रात्रिर्वा नाहर्वा सर्वदा दृशेः॥
सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्ममद्वयम्।
तेनाप्यस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम्॥
ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत्।
एकस्य सुषिभेदेन तथा मम विकल्पितः॥
भेदोऽभेदस्तथा चैको नाना चेति विकल्पितम्।
ज्ञेयं ज्ञाता गतिर्गन्ता मय्येकस्मिन् कुतो भवेत्॥
न मे हेयं न चादेयमविकारी यतो ह्यहम्।
सदा मुक्तस्तथा शुद्धः सदा बुद्धोऽगुणोऽद्वयः॥
इत्येवं सर्वदात्मानां विद्यात् सर्वं समाहितः।
विदित्वा मां स्वदेहस्थं ऋषिर्मुक्तो ध्रुवो भवेत्॥
कृतकृत्यश्च सिद्धश्च योगी ब्राह्मण एव च ।
यदैवं वेद तत्त्वार्थमन्यथा ह्यात्महा भवेत्॥
वेदार्थो निश्चितो ह्येष समासेन मयोदितः।
संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना॥