उपदेशसाहस्री / उपदेश १६ / आदि शंकराचार्य
पार्थिवः कठिनो धातुर्द्रवो देहे स्मृतोऽम्मयः।
पक्तिचेष्टावकाशाः स्युर्वह्निवाय्वम्बरोद्भवाः॥
घ्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात्।
रूपालोकवदिष्टं हि सजातीयार्थमिन्द्रियम्॥
बुद्ध्यर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे।
तद्विकल्पार्थमन्तस्थं मन एकादशं भवेत्॥
निश्चयार्था भवेद् बुद्धिस्तां सर्वार्थानुभाविनीम्।
ज्ञातामोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा॥
व्यञ्जकस्तु यथालोको व्यञ्ग्यस्याकारतां गतः।
व्यतिकीर्णोऽप्यसंकीर्नस्तद्वज् ज्ञः प्रत्ययैः सदा॥
स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत्।
शब्दाद्याकारबुद्धीर्ज्ञः प्राप्तास्तद्वत् प्रपश्यति॥
शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम्।
नित्यात्मज्योतिषा दीप्तां विशिंशन्ति सुखादयः॥
शिरोदुःखादिनात्मानं दुःख्यस्मीति हि पश्यति।
द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वाच् च न दुःख्यसौ॥
दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा।
संहतेऽञ्गादिभिर्द्रष्टा दुःखी दुःखस्य नैव सः॥
चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकमेव तत्।
संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत्॥
ज्ञानयत्नाद्यनेकत्वमात्मनोऽपि मतं यदि।
नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता॥
ज्योतिषो द्योतकत्वेऽपि यद्वन् नात्मप्रकाशनम्।
भेदेऽप्येवं समत्वाज् ज्ञ आत्मानं नैव पश्यति॥
यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम्।
न ह्यात्मानं दहत्यग्निस्तथा नैव प्रकाशयेत्॥
एतेनैवात्मनात्मनो ग्रहो बुद्धेर्निराकृतः।
अंशोऽप्येवं समत्वाद् धि निर्भेदत्वान् न युज्यते॥
शून्यतापि न युक्तैवं बुद्धेरन्येन दृश्यता।
उक्तातो घटवत् तस्याः प्राक् सिद्धेश्च विकल्पतः॥
अविकल्पं तदस्त्येव यत् पूर्वं स्याद् विकल्पतः।
विकल्पोत्पत्तिहेतुत्वाद् यद्यस्यैव च कारणम्॥
अज्ञानं कल्पनामूलं संसारस्य नियामकम्।
हित्वात्मानं परं ब्रह्म वियान् मुक्तं सदाभयम्॥
जाग्रत्स्वप्नौ तयोर्बीजं सुषुप्ताख्यं तमोमयम्।
अन्योन्यस्मिन्नसत्त्वाच् च नास्तीत्येतत् त्रयं त्यजेत्॥
आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात्।
भ्रान्तिः स्यादात्मकर्मेति क्रियाणां संनिपाततः॥
निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः।
प्रकाशत्वान् मनस्येवं बुद्धौ न स्तः प्राकाशतः॥
संकल्पाध्यवसायौ तु मनोबुद्ध्योर्यथाक्रमात्।
नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम्॥
स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम्।
गता धीस्तां हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते॥
क्षणिकं हि तदत्यर्थं धर्ममात्रं निरन्तरम्।
सादृश्याद् दीपवत् तद्धीस्तच्छान्तिः पुरुषार्थता॥
स्वाकारन्यावभासं च येषां रूपादि विद्यते।
येषां नास्ति ततश्चान्यत् पूर्वासंगतिरुच्यते॥
बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात्।
क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धीः॥
आधारस्यापि असत्त्वाच् च तुल्यतानिर्निमित्ततः।
स्थाने वा क्षणिकत्वस्य हानं स्यान् न तदिष्यते॥
शान्तेश्चायत्नसिद्धत्वात् साधनोक्तिरनर्थिका।
एकैकस्मिन् समाप्तत्वाच्छान्तेरन्यानपेक्षता॥
अपेक्षा यदि भिन्नेऽपि परसंतान इष्यताम्।
सर्वार्थे क्षणिके कस्मिंस्तथाप्यन्यानपेक्षता॥
तुल्यकालसमुद्भूतावितरेतरयोगिनौ।
योगाच् च संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति॥
मृषाध्यासस्तु यत्र स्यात् तन्नाशस्तत्र नो मतः।
सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद॥
अस्ति तावत् स्वयं नाम ज्ञानं वात्मन्यदेव वा।
भावाभावज्ञतस्तस्य नाभावस्त्वधिगम्यते॥
येनाधिगम्यतेऽभावस्तत् सत् स्यात् तन् न चेद् भवेत्।
भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते॥
सदसत् सदसच् चेति विकल्पात् प्राग् यदिष्यते।
तदद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात्॥
विकल्पोद्भवतोऽसत्त्वं स्वप्नदृश्यवदिष्यताम्।
द्वैतस्य प्रागसत्त्वाच् च सदसत्त्वादिकल्पनात्॥
वाचारम्भणशास्त्राच् च विकाराणां ह्यभावता।
मृत्योः स मृत्युमित्यादेर्मम मयेति च स्मृतेः॥
विशुद्धिश्चात एवास्य विकल्पाच् च विलक्षणात्।
उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः॥
अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः।
नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वदात्मनि॥
तथाविक्रियरूपत्वान् नावस्थान्तरमात्मनः।
अवस्थान्तरवत्त्वे हि नाशोऽस्य स्यान् न संशयः॥
मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो ह्यतः।
न संयोगो वियोगो वा मोक्षो युक्तः कथंचन॥
संयोगस्याप्यनित्यत्वाद् वियोगस्य तथैव च।
गमनागमने चैव स्वरूपं तु न हीयते॥
स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे।
अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च॥
स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्यनन्यतः।
गृहीतुं वा ततो नित्योऽविषयत्वापृथक्त्वतः॥
आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः।
त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित्॥
आत्मलाभः परो लाभ इति शास्त्रोपत्तयः।
अलाभोऽन्यात्मलाभस्तु त्यजेत् तस्मादनात्मताम्॥
गुणानां समभावस्य भ्रंशो न ह्युपपद्यते।
अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुरिष्यते॥
इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा।
नियमो न प्रवृत्तीनां गुणेष्वात्मनि वा भवेत्॥
विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते।
अर्थार्थिनोश्च संबन्धो नार्थी ज्ञो नेतरोऽपि वा॥
प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः।
न युक्तं संख्यशास्त्रेऽपि विकारेऽपि न युज्यते॥
संबन्धानुपपत्तेश्च प्रकृतेः पुरुषस्य च।
मिथोऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः॥
क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत्।
निर्मित्ते त्वनिर्मोक्षः प्रधानस्य प्रसज्यते॥
न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः।
एकनीडत्वतोऽग्राह्याः स्युः कणादादिवर्तमनाम्॥
युगपच् चासमेतत्वात् सुखविज्ञानयोरपि।
मनोयोगैकहेतुत्वादग्राह्यत्वं सुखस्य च॥
तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते।
गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात्॥
ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेश्तथा।
सुखं ज्ञातं मयेत्येवं तवाज्ञानात्मकत्वतः॥
सुखादेर्नात्मधर्मत्वमात्मनस्तेऽविकारतः।
भेदादन्यस्य कस्मान् न मनसो वाऽविशेषतः॥
स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत्।
युगपद् वापि चोत्पत्तिरभ्युपेतेऽन्त इष्यते॥
अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते।
नाशुद्धिश्चाप्यसञ्गत्वादसञ्गो हीति च श्रुतेः॥
सूक्ष्मैकागोचारेभ्यश् च न लिप्यत इति श्रुतेः।
एवं तर्हि न मोक्षोऽस्ति बन्धाभावात् कथंचन॥
शास्त्रानर्थक्यमेवं स्यान् न बुद्धेर्भ्रान्तिरिष्यते।
बन्धो मोक्षश्च तन्नाशः स यथोक्तो न चान्यथा॥
बोधात्मज्योतिषा दीप्ता बोधमात्मनि मन्यते।
बुद्धिर्नान्योऽस्ति बोद्धेति सेयं भ्रान्तिर्हि धीगता॥
बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते।
अविवेकोऽप्यनाद्योऽयं संसारो नान्य इष्यते॥
मोक्षस्तन्नाश एव स्यान् नान्यथानुपपत्तितः।
येषां वस्त्वन्तरापत्तिर्मोक्षो नाशस्तु तैर्मतः॥
अवस्थान्तरमप्येवमविकारान् न युज्यते।
विकारेऽवयवित्वं स्यात् ततो नाशो घटादिवत्॥
तस्माद् भ्रान्तिरतोऽन्या हि बन्धमोक्षादिकल्पनाः।
सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः॥
शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन।
शक्यन्ते शतशो वक्तुं दोषास्तासां सहस्रशः॥
अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्यतः।
त्यक्त्वातो ह्यन्यशात्रोक्तीर्मतिं कुर्याद् दृढां बुधः॥
श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वमनार्जवम्।
वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा॥
इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश्च तथा हि युक्तितः।
व्यपेतशञ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युरित्युत॥
स्वसाक्षिकं ज्ञानमतीव निर्मलं विकल्पनाभ्यो विपरीतमद्वयम्।
अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिमेति शाश्वतीम्॥
इदं रहस्यं परमं परायणं व्यपेतदोषैरभिमानवर्जितैः।
समीक्ष्य कार्या मतिरार्जवे सदा न तत्त्वदृक् स्वान्यमतिर्हि कश्चन॥
अनेकजन्मान्तरसंचितैर्नरो विमुच्यतेऽज्ञाननिमित्तपातकैः।
इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः॥
प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे।
गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे॥
परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थमीक्ष्य च।
इदं हि विज्ञानमतीव निर्मलं संप्राप्य मुक्तोऽथ भवेच् च सर्वतः॥
न हीह लाभोऽभ्यधिकोऽस्ति कश्चन स्वरूपलाभात् स इतो हि नान्यतः।
न देयमैन्द्रादपि राजतोऽधिकं स्वरूपलाभं त्वपरीक्ष्य यत्नतः॥