उपदेशसाहस्री / उपदेश १७ / आदि शंकराचार्य
आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन् न विद्यते।
सर्वज्ञः सर्वदृक् शुद्धस्तस्मै ज्ञेयात्मने मनः ॥
पदवाक्यप्रमाणज्ञैर्दीपभूतैः प्रकाशितं ।
ब्रह्म वेदरहस्यं यैस्तान् नित्यं प्रणतोऽस्म्यहम्॥
यद्नाक्सूर्यांशुसंपातप्रणष्टध्वान्तकल्मषः।
प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम्॥
आत्मलाभात् परो नायो लाभः कश्चन विद्यते।
यदर्था वेदवादाश्च स्मार्ताश्चापि तु याः किर्याः॥
आत्मार्थोऽपि हि यो लाभः सुखायेष्टो विपर्ययः।
आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः॥
स्वयं लब्धस्वभावत्वा लाभस्तस्य न चायथः।
अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः॥
अन्यदृष्टिस्त्वविद्या स्यात् तन्नाशो मोक्ष उच्यते।
ज्ञानेनैव तु सोऽपि स्याद् विरोधित्वान् न कर्मणा॥
कर्मकार्यस्त्वनित्यः स्यादविद्याकामकार्णः।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः॥
ज्ञानैकार्थपरत्वात् तं वाक्यमेकं ततो विदुः।
एकत्वं ह्यात्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः॥
वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्योऽपि तच्छ्रुतेः।
त्रयं त्वेतत् ततः प्रोक्तं रूपं नाम च कर्म च॥
असदेतत् त्रयं तस्मादन्योन्येन हि कल्पितम्।
कृतो वर्णो थता शब्दाच्छ्रुतोऽन्यत्र धिया बहिः॥
दृष्टं चापि यथारूपं बुद्धेः शब्दाय कल्पते।
एवमेतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम्॥
असदेतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम्।
वेदश्चापि स एवाद्यो वेद्यश्चान्यस्तु कल्पितः॥
येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया।
येन पश्यति तच् चक्षुः शृणोति श्रोत्रमुच्यते॥
येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च।
रसनस्पर्शने चैव मनश्चान्यत् तथेन्द्रियम्॥
कल्प्योपाधिभिरेवैतद् भिनं ज्ञानमनेकधा।
आधिभेदाद् यथ भेदो मणेरेकस्य जायते॥
जाग्रतश्च तथा भेदो ज्ञानस्यास्य विकल्पितः।
बुद्धिस्थं व्याकरोत्यर्थं भ्रान्त्या तृष्णोद्भवक्रियः॥
स्वप्ने यद्वत् प्रबोधे च बहिश्चान्तस्तथैव च।
आलेख्याध्ययने यद्वत् तदन्योन्यधियोद्भवम्॥
यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत् तत् प्रपद्यते॥
अविद्याप्रभवं सर्वमसत् तस्मादिदं जगत्।
तद्वता सृश्यते यस्मात् सुषुप्ते न च ग्र्ह्यते॥
विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ गि नः।
तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते॥
चित्ते ह्यादर्शवद् यस्माच्छुद्धे विद्या प्रकाशते।
यमैर्नित्यैश्च यज्ञैश्च तपोभिस्तस्य शोधनम्॥
शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थमुत्तमम्।
मनआदिसमाधानं तत्तद्देहविशोषणम्॥
दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तदेव तु।
सुषुप्तं तदभावं च स्वमात्मानं परं पदम्॥
सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः।
स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम्॥
तदेवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात्।
मायाव्यात्माविकारोऽपि बहुधैलो जलार्कवत्॥
बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस्थता।
स्वप्नजाग्रच्छरीएषु तद्वच् चात्मा जलेन्दुवत्॥
मायाहस्तिनमारुह्य मायाव्येको यथा व्रजेत्।
आगच्छंस्तद्वदेवात्मा प्राणस्वप्नादिगोऽचलः॥
न हस्ती न तदारूढो मायाव्यन्यो यथा स्थितः।
न प्राणादि न तद्द्रष्टा तथा ज्ञोऽन्यः सदा दृशिः।
अबद्धचक्षुषो नास्ति माया मायाविनोऽपि वा।
बद्धाक्षस्यैव सा मायामायाव्येव ततो भवेत्॥
साक्षादेव स विज्ञेयः साक्षादात्मेति च श्रुतेः।
भिद्यते हृदयग्रन्थिर्न चेदित्यादितः श्रुतेः॥
अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर्भवेत्।
सुखादिभ्यस्तथान्यत्वद् बुद्ध्या वापि कथं भवेत्॥
अदृश्योऽपि यथा राहुश्चन्द्रे बिम्बं यथाम्भसि।
सर्वगोऽपि तथैवात्मा बुद्धावेव स गृह्यते॥
भानोर्बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः।
बुद्धौ बोधो न तद्धर्मस्तथैव स्याद् विधर्मतः॥
चक्षुर्युक्ता धियो वृत्तिर्या तां तश्यन्नलुप्तदृक्।
दृष्टेर्द्रष्टा भवेदात्मा श्रुतेः श्रोता तथा श्रुतेः॥
केवलां मनसो वृत्तिं पश्यन् मन्ता मतेरजः।
विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्यतः॥
ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि।
अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः॥
शक्त्यलोपात् सुषुप्ते ज्ञस्थता बोधेऽविकारतः।
ज्ञेयस्यैव विशेषस्तु यत्र वेति श्रुतेर्मतः॥
व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेरनात्मनः।
दृष्टेरात्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम्॥
न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने।
बोधस्यात्मस्वरूपत्वान् न बोधोऽन्यस्तथेष्यते॥
विषयत्वं विकारित्वं नानात्वं वा न हीष्यते।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः॥
सबाह्याभ्यन्तरोऽजीर्णो जन्ममृत्युजरातिगः।
अहमात्मेति यो वेत्ति कुतो न्वेव बिभेति सः॥
प्रगेवैतद्विधेः कर्म वर्णित्वादेरपोहनात्।
तदस्थूलादिशास्त्रेभ्यस्तत् त्वमेवेति निश्चयात्॥
पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः।
देहस्यैव तु जात्यादिस्तस्याप्येवं ह्यनात्मता॥
ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु।
आत्मज्ञानेन हेया स्यादसुराणामिति श्रुतेः॥
दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम्।
यथा ज्ञानस्य संप्राप्तौ तद्वज् जात्यादिकर्मणाम्॥
यत्कामस्तत्क्रतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते।
यदा स्वात्मदृशः कामाः प्रमुच्यन्तेऽमृतस्तदा॥
आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम्।
न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर्मतः॥
उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम्।
नातोऽन्यत् कर्मणः कर्यं त्यजेत् तस्मात् ससाधनम्॥
तापान्तत्वादनित्यत्वादात्मार्थत्वाच् च या बहिः।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुमाश्रयेत्॥
शान्तं प्राज्ञं तथा मुक्तं निष्क्र्यं ब्रह्मणि स्थितम्।
श्रुतेराचार्यवान् वेद तद् विद्धीति स्मृतेस्तथा॥
स गुरुस्तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम्।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम्॥
दृष्टिः स्पृष्टिः श्रुतिर्घ्रातिर्मतिर्विज्ञातिरेव च।
शक्तयोऽन्याश्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः॥
अपायोद्भूतिहीनाभिर्नित्यं दीप्यन् रविर्यथा।
सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा॥
अन्यदृष्टिः शरीरस्थस्तावन्मात्रो ह्यविद्यया।
जलेन्द्वाद्युपमभिस्तु तद्धर्मा च विभाव्यते॥
दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्यन्ध्वगः॥
प्राणाद्येवं त्रिकं हित्वः तीर्णोऽज्ञानमहोदधिम्।
स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः॥
अजोऽहं चामरोऽमृत्युरजरोऽभय एव च।
सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते॥
पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः।
तद्भावे कुतो जन्म ब्रह्मैकत्वं विजानतः॥
क्षीरात् सर्पिर्यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत्।
बुद्ध्यादेर्ज्ञस्तथासत्यान् न देही पूर्ववद् भवेत्॥
सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात् परम्।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निभयः॥
यस्माद् भीताः प्रवर्तन्ते वाञ्मनःपावकादयः।
तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन॥
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितोऽद्वये।
प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा॥
विराड् वैश्वानरो बाह्यः स्मरन्नन्तः प्रजापतिः।
प्रविलीने तु सर्वस्मिन् प्राज्ञोऽव्याकृतमुच्यते॥
वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्वसत्।
सत्यो ज्ञश्चाहमित्येवं सत्यसन्धो विमुच्यते॥
भारूपत्वाद् यथा भानोर्नाहोरात्रे तथैव तु।
ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः॥
शास्त्रस्यानतिशञ्क्यत्वाद् ब्रह्मैव स्यामहं सदा।
ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत्॥
अहमेव च भूतेषु सर्वेष्वेको नभो यथा॥
मयि सर्वाणि भूतानि पश्यन्नेवं न जायते॥
न बाह्यं मध्यतो वान्तर्विद्यतेऽन्यत् स्वतः क्वचित्।
अबाह्यान्तःश्रुतेः किंचित् तस्माच्छुद्धः स्वयंप्रभः॥
नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमोऽद्वयः।
अविज्ञातादिशास्त्राच्च नैव ज्ञेयो ह्यतोऽन्यथा॥
सर्वस्यात्माहमेवेति ब्रह्म चेद् विदितं परम्।
स आत्मा सर्वभूतानामात्मा ह्येषामिति श्रुतेः॥
जिवश्चेत् परमात्मानं स्वात्मानं देवमञ्जसा।
देवोपास्यः स देवानां पशुत्वाच् च निवर्तते॥
अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यथाम्बरम्।
इत्येवं सत्यसंधत्वादसद्धाता न बध्यते॥
कृपणास्तेऽन्यथैवातो विदुर्ब्रह्म परं हि ये।
स्वराड् योऽनन्यदृक् स्वस्थस्तस्य देवा असन् वशे॥
हित्वा जात्यादिसंबन्धं वाचोऽन्याः सह कर्मभिः।
ओमित्येवं स्वमात्मानं सर्वं शुद्धं प्रपद्यथ॥
सेतुं सर्वव्यवस्थानामहोरात्रादिवर्जितम्।
तिर्यगूर्ध्वमधः सर्वं सकृज्ज्योतिरनामयम्॥
धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात्।
स्वमात्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः॥
अकुर्वन् सर्वकृच्छुद्दस्तिष्ठन्नत्येति धावतः।
मायया सर्वशक्तित्वादजः सन् बनुधा मतः॥
राजवत् साक्षिमात्रत्वात् सांनिध्याद् भ्रामको यथा।
भ्रामयञ् जगदात्माहं निष्क्रियो ऽकारकोऽद्वयः॥
निगुणं सिष्कियं नित्यं निर्द्वन्द्वं यन् निरामयम्।
शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत्॥
बन्धं सोक्षं च सर्वं यत इदमुभयं हेयमेकं द्वयं च।
ज्ञेयाज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम्।
विज्ञायैतद् यथावच्छ्रुतिमुनिगदितं शोकमोहावतीतः।
सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणोऽवाप्तकृत्यः॥
न स्वयं स्वस्य नान्यश्च नान्यस्यात्मा च हेयगः।
उपादेयो न चाप्येवमिति सम्यञ्मतिः स्मृता॥
आत्मप्रत्यायिका ह्येषा सर्ववेदान्तगोचरा।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः॥
रहस्यं सर्ववेदानां देवानां चापि यत् परम्।
पवित्रं परमं ह्येतत् तदेतत् संप्रकाशितम्॥
नैतद् देयमशान्ताय रहस्यं ज्ञानमुत्तमम्।
विरक्ताय प्रदातव्यं शिष्यायानुगताय च॥
ददतश्चात्मनो ज्ञानं निष्क्रियोऽन्यो न विद्यते।
ज्ञानमिच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा॥
ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यन् न विद्यते।
सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः॥
विद्यया तारिताः स्मो यैर्जन्ममृत्युमहोदधिम्।
सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसंकुलं॥