भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

उपदेशसाहस्री / उपदेश ७ / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा।
 मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः॥

यथामबुद्धिचाराणां साक्षी तद्वत् परेष्वपि।
 नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम्॥

विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः।
 अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना॥

मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे।
 मयि संदृश्यते सर्वमातपेनेव तन् मया॥

बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये।
 द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते॥

अविवेकात् पराभावं यथा बुद्धिरवेत् तथा।
 विवेकात् तु परादन्यः स्वयं चापि न विद्यते॥