गङ्गास्तोत्रम् / मच्छंकराचार्य
देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे ।
शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥१॥
भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् ॥२॥
हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे ।
दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् ॥३॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥४॥
पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे ।
भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥५॥
कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ॥६॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ॥७॥
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥८॥
रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥९॥
अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये ।
तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥१०॥
वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः ॥११॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥१२॥
येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः ।
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः ॥१३॥
गंगास्तोत्रमिदं भवसारं वांछितफलदम् विमलं सारम् ।
शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तम् ॥१४॥
॥इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम् ॥