गुलिका / कौशल तिवारी
(1)
म्रियेते द्वौ जनौ
यदा चलति गुलिका,
एकस्तु स
यो लक्ष्यभूतः
द्वितीयस्स
यो चालयति गुलिकाम्,
यदाऽम्रियथास्त्वं
प्रथमे समये
भुशुण्डिकायाः पृष्ठतस्
तर्हि किमरोदस्त्वं
स्वकीये शवे
अथवाऽश्रूणि पीत्वा
जोषमतिष्ठः
स्वकीयं शवमूढ्वा
निखाते क्षिप्तं
कस्मिन्नपि विजनस्थाने।
त्वं तु म्रियेथाः
वारं-वारं ?
तर्हि तद् जीवनं भवति
द्वयोर्मरणयोर्मध्ये
तत् कथं जीवसि,
किं सज्जतां करोषि
पुनर्मरणस्य
अथवा तद् जीवनमपि भवति
मरणवदेव
अथवा त्वमम्रियथाः
प्रथमे समये
सम्पूर्ण एव॥
(2)
गुलिका न जानाति यत्
किं भवेत्
तस्याः लक्ष्यम्,
सा तु चलति
तव संकेते
त्वया रचितं
गन्तव्यं प्रति॥
(3)
न चालयसि त्वं गुलिकाम्
अन्यस्मिन् कस्मिन्नपि
अपितु आत्मनि एव।
यावज् ज्ञास्यसि
त्वमेतद्रहस्यं
तावत्पर्यन्तं त्वमपि
तत्रैव भविष्यसि प्रेतभूमौ
यत्र सन्ति
गुलिकाचालकानां गणाः॥
(4)
गुलिकाशय्यायां शयित्वा
सूर्योत्तरायणगमनाशायां
कं प्रतीक्षसे त्वम्
उपदेशप्रदानाय,
कोऽपि नास्ति तत्र
श्रवणार्थं तव वार्ताम्,
सर्वे कुर्वन्ति सज्जतां
स्व-स्व-शय्यायाः अस्मिन् कुरुक्षेत्रे॥