भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

चायपानकाले / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

पायं पायमिमं कषायमधुरं चायं मुहुश्चूषितैः
स्वच्छन्दं प्रतिचूषकं नवनवः सञ्जायते वै रसः।
अस्मिन् वै प्रतिबिम्बितास्तु चषके ते प्रोन्नताः पर्वता-
श्चायोद्यानहरीतिमा स सघनश्चोपपत्यकाविस्तृतः।।

आसामेषु च सिक्किमेषु च तथा वै दार्जिलिङ्गेऽथवा
धृत्वा पृष्ठकरण्डकं द्रुततरं सञ्चालयन्त्या करम्।
चिन्वन्त्या विहितः श्रमः खलु तया यः पत्रलाव्या गुरुः
तस्याप्येष नु मिश्रितोस्ति चषके गन्धः कषायः प्रियः।।