भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

जाबालदर्शनोपनिषत् / दशमः खण्डः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

अथातः संप्रवक्ष्यामि समाधिं भवनाशनम्।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति॥१॥

नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः।
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः॥२॥

तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः।
यथाकाशो घटाकाशो मठाकाश इतीरितः॥३॥

तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना।
नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि॥४॥

सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः।
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते॥५॥

साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन।
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः॥६॥

समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते।
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि॥७॥

यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः।
स तु याति च पुंभावं स्वयं साक्षात्परामृतम्॥८॥

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम्॥९॥

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति।
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा॥१०॥

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति।
एकीभूतः परेणाऽसौ तदा भवति केवलः॥११॥

यदा पश्यति चात्मानं केवलं परमार्थतः।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः॥१२॥

एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः।
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः॥१३॥

इति॥ इति दशमः खण्डः॥१०॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥

ॐ शान्तिः शान्तिः शान्तिः॥हरिः ॐ तत्सत्॥

इति श्रीजाबालदर्शनोपनिषत्समाप्ता॥