Last modified on 20 जून 2014, at 18:06

जाबालदर्शनोपनिषत् / नवमः खण्डः / संस्कृतम्‌

अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम्।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम्॥१॥

ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम्।
सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम्॥२॥

अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम्।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम्॥३॥

तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम्।
न रसं न च गन्धाख्यमप्रमेयमनूपमम्॥४॥

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत।
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये॥५॥

एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः॥६॥

इति नवमः खण्डः॥९॥