जाबालदर्शनोपनिषत् / सप्तमः खण्डः / संस्कृतम्
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः॥१॥
बलादाहरणां तेषां प्रत्याहारः स उच्यते।
यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः॥२॥
प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः।
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम्॥३॥
तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः॥४॥
काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते।
अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत्॥५॥
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम्।
उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत्॥६॥
नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत्।
कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत्॥७॥
अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे।
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत्॥८॥
प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा।
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः॥९॥
सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत।
नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः॥१०॥
पूरयेदनिलं विद्वानापादतलमस्तकम्।
पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च॥११॥
नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके।
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत्॥१२॥
देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः।
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत्॥१३॥
प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः।
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम्॥१४॥
इति॥
इति सप्तमः खण्डः॥७॥