तरङ्ग - २ / उमानाथ शर्मा पोख्रेल
चातुर्यमादाय मरालजाते-
र्यो वस्तुसारोऽत्र तमेव पित्वा ।।
यत् फल्गु तत्र क्षमया भवन्तः ।
सिञ्चन्तु दृष्टया रस-शान्तिमय्या ।।१।।
अक्षि-नन्द-चन्द्र-सम्मिते ।
विक्रमीय-शुभ-वत्सरे बुधाः ।।
जन्मिनां विविध-दुःख-भागिनाम् ।
मङ्गलाय किमपीह दर्शितम् ।।२।।
इदं कृत्य मयं पन्थाः, सुख मत्रेति या कथा ।
शिष्टोपदिष्टा बुद्धाऽऽसीदत्राहं व्यलिखं तथा ।।३।।
यो वेत्त्यसारतमस्य भवस्य विभवस्य च ।
भवे भवति भकेतिश्च, यस्य सोऽत्रानुरज्यते ।।४।।
मन्यन्तां मामकं वाक्य मिति नो मन्मनोलयः ।
किन्तु निर्वाध मध्वानं श्रयन्त्विति ममाशयः ।।५।।
यदा मरीचिकामेव धावेज्जनमनोरयः ।
तत्रापि स्मयमानोहं वर्त एवाऽस्मि निर्भयः ।।६।।
यदि वापि दिवानक्तं मम दूषण-सञ्चयः ।
प्रचरेद्विधिनानेत तदाप्यस्मि निरामयः ।।७।।
अलमतोऽधिकविस्तरेओ