त्रिपाद्विभूतिमहानारायणोपनिषत् / षष्ठोध्यायः / संस्कृतम्
यत उपासकः परमानन्दं प्राप सावरणं ब्रह्माण्डं च भित्त्वा परितः समवलोक्य ब्रह्माण्डस्वरूपं निरीक्ष्य परमार्थतस्तत्स्वरूपं ब्रह्मज्ञानेनावबुध्य समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे समस्ताः परमर्षयश्चाण्डाभ्यन्तरप्रपञ्चैकदेशमेव वर्णयन्ति।
अण्डस्वरूपं न जानन्ति।
ब्रह्माण्डाद्बहिः प्रपञ्चज्ञानं न जानत्येव।
कुतोऽण्डान्तरान्तरर्बहिः प्रपञ्चज्ञानं दूरतो मोक्षप्रपञ्चज्ञानमविद्या चेति कथं ब्रह्माण्डस्वरूपमिति।
कुक्कुटाण्डाकारं महदादिसमष्ट्याकारणमण्डं तपनीयमयं तप्तजाम्बूनदप्रभमुद्यत्कोटिदिवाकराभं चतुर्विधसृष्ट्युपलक्षितं महाभूतैः पञ्चभिरावृतं महदहङ्कृतितमोभिश्च मूलप्रकृत्या परिवेष्टितम्।
अण्डभीतिविशालं सपादकोटियोजनप्रमाणम्।
एकैकावरणं तथैव।
अण्डप्रमाणं परितोऽयुतद्वयकोटियोजनप्रमाणं महामण्डूकाद्यनन्तशक्तिभिरधिष्ठितं नारायणक्रीडाकन्तुकं परमाणुवद्विष्णुलोकसुसंलग्न- मदृष्टश्रुतविविधविचित्रानन्तविशेषैरुपलक्षितम्।
अस्य ब्रह्माण्डस्य समन्ततः स्थितान्येतादृशान्यनन्त- कोटिब्रह्माण्डानि सावरणानि ज्वलन्ति।
चतुर्मुखपञ्चमुखषण्मुखसप्तमुख- अष्टमुखादिसंख्याक्रमेण सहस्रावधिमुखा- न्तैर्नारायणांशै रजोगुणप्रधानैरेकैकसृष्टि- कर्तृभिरधिष्ठितानि विष्णुमहेश्वराख्यैर्नारायणांशैः सत्त्वतमोगुणप्रधानैरेकैकस्थितिसंहारकर्तृभिरधिष्ठितानि महाजलौघमत्स्यबुद्बुदानन्तसङ्घवद्भ्रमन्ति।
क्रीडासक्तजालककरतलामलकवृन्दवन्महाविष्णोः करतले विलसन्त्यनन्तकोटिब्रह्माण्डानि।
जलयन्त्रस्थघटमालिका- जालवन्महाविष्णोरेकैकरोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि सावरणानि भ्रमन्ति।
समस्तब्रह्माण्डान्तर्बहिः प्रपञ्चरहस्यं ब्रह्मज्ञानेनावबुध्य विविधविचित्रानन्तपरमविभूतिसमष्टि- विशेषन्त्समवलोक्यात्याश्चर्यामृतसागरे निमज्ज्य निरतिशयानन्दपारावारो भूत्वा समस्तब्रह्माण्डजालानि समुल्लङ्घ्यामितापरिच्छिन्नानन्ततमः सागरमृत्तीर्य मूलाविद्यापुरं दृष्ट्वा विविधविचित्रानन्तमहामाया- विशेषैः परिवेष्टितामनन्तमहामायाशक्तिसमष्ट्याकारामनन्तदिव्य- तेजोज्वालाजालैरलङ्कृतामनन्तमहामायाविलसानां परमाधिष्ठानविशेषाकारां शश्वदमितानन्दाचलोपरि विहारिणीं मूलप्रकृतिजननीमविद्यालक्ष्मीमेवं ध्यात्वा विविधोपचारैराराध्य समस्तब्रह्माण्डसमष्टिजननीं वैष्णवीं महामायां नमस्कृत्य तया चानुज्ञातश्चोपर्युपरि गत्वा महाविराट्पदं प्राप॥
महाविराट्स्वरूपं कथमिति।
समस्ताविद्यापादको विराट्।
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्।
संबाहुभ्यां नमति संपतत्रै- र्द्यावापृथिवी जनयन्देव एकः।
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति।
मनोवाचामगोचरमादिविराट्स्वरूपं ध्यात्वा विविधोपचारैराराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विविधविचित्रानन्तमूलाविद्याविलासानवलोक्योपासकः परमकौतुकं प्राप।
अखण्डपरिपूर्णपरमानन्दलक्षण- परब्रह्मणः समस्तस्वरूपविरोधकारिण्यपरिच्छिन्न- तिरस्करिण्याकारा वैष्णवी महायोगमाया मूर्तिमद्भिरनन्त- महामायाजालविशेषैः परिषेविता तस्याः पुरमतिकौतुक- मत्याश्चर्यसागरानन्दलक्षणममृतं भवति।
अविद्यासागरप्रतिबिम्बितनित्यवैकुण्ठप्रतिवैकुण्ठमिव विभाति।
उपासकस्तत्पुरं प्राप्य योगलक्ष्मीमंगमायां ध्यात्वा विविधोपचारैराराध्य तया संपूजितश्चानुज्ञात- श्चोपर्युपरि गत्वानन्तमायाविलासानवलोक्योपासकः परमकौतुकं प्राप॥
तत उपरि पादविभूतिवैकुण्ठपुर- माभाति।
अत्याश्चर्यानन्तविभूतिसमष्ट्याकार- मानन्दरसप्रवाहैरलङ्कृतमभितस्तरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजोविशेषाकारैरनन्त- ब्रह्मवनैरभितस्ततमनन्तनित्यमुक्तैरभिव्याप्तमनन्त- चिन्मयप्रासादजालसंकुलमनादिपादविभूतिवैकुण्ठ- मेवमाभाति।
तन्मध्ये च चिदानन्दाचलो विभाति॥
तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः।
तदभ्यन्तरे परमानन्दविमानं विभाति।
तदभ्यन्तरसंस्थाने चिन्मयासनं विराजते।
तत्पद्मकर्णिकायां निरतिशयदिव्यतेजोराश्यन्तर- समासीनमादिनारायणं ध्यात्वा विविधोपचारैस्तं समाराध्य तेनाभिपूजितस्तदनुज्ञातश्चोपर्युपरिगत्वा सावरणमविद्याण्डं च भित्त्वा विद्यापादमुल्लङ्घ्य विद्याविद्ययोः सन्धौ विश्वक्सेनवैकुण्ठपुरमाभाति॥
अनन्तदिव्यतेजोज्वालाजालैरभितोऽनीकं प्रज्वलन्तमनन्त- बोधानन्तबोधानन्दव्यूहैरभितस्ततं शुद्धबोध- विमानावलिभिर्विराजितमनन्तानन्दपर्वतैः परमकौतुक- माभाति।
तन्मध्ये च कल्याणाचलोपरि शुद्धानन्द- विमानं विभाति।
तदभ्यन्तरे दिव्यमङ्गलासनं विराजते।
तत्पद्मकर्णिकायां ब्रह्मतेजोराश्यभ्यन्तरसमासीनं भगवदनन्तविभूतिविधिनिषेधपरिपालकं सर्वप्रवृत्ति- सर्वहेतुनिमित्तिकं निरतिशयलक्षणमहाविष्णूस्वरूप- मखिलापवर्गपरिपालकममितविक्रममेवंविधं विश्वक्सेनं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारै- राराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विद्याविभूतिं प्राप्य विद्यामयानन्तवैकुण्ठान्परितोऽवस्थितान्ब्रह्मतेजोमया- नवलोक्योपासकः परमानन्दं प्राप॥
विद्यामयाननन्तसमुद्रानतिक्रम्य ब्रह्मविद्या- तरङ्गिणीमासाद्य तत्र स्नात्वा भगवद्ध्यानपूर्वकं पुनर्निमज्ज्य मन्त्रमयशरीरमुत्सृज्य विद्यानन्द- मयामृतदिव्यशरीरं परिगृह्य नारायणसारूप्यं प्राप्यात्मपूजां विधाय ब्रह्ममयवैकुण्ठवासिभिः सर्वैर्नित्यमुक्तैः सुपूजितस्ततो ब्रह्मविद्याप्रवाहैरानन्द- रसनिर्भरैः क्रीडानन्तपर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामहैः सहस्रप्राकारैरानन्दामृतमयै- र्दिव्यगन्धस्वभावैश्चिन्मयैरनन्तब्रह्मवनैरतिशोभित- मुपासकस्त्वेवंविधं ब्रह्मविद्यावैकुण्ठमाविश्य तदभ्यन्तरस्थितात्यन्तोन्नतबोधानन्दप्रासादाग्रस्थित- प्रणवविमानोपरिस्थितामपारब्रह्मविद्यासाम्राज्याधिदेवता- ममोघनिजमन्दकटाक्षेणानादिमूलाविद्याप्रलयकरीमद्वितीया- मेकामनन्तमोक्षसाम्राज्यक्ष्मीमेवं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य पुष्पाञ्जलिं समर्प्य स्तुत्वा स्तोत्रविशेषैस्तयाभिपूजित- स्तदनुगतश्चोपर्युपरि गत्वा ब्रह्मविद्यातीरे गत्वा बोधानन्दमयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य बोधानन्दमयाननन्तसमुद्रानतिक्रम्य गत्वागत्वा ब्रह्मवनेषु परममङ्गलाचलश्रोणीषु ततो बोधानन्दविमानपरम्परा- सूपासकः परमानन्दं प्राप॥
ततः श्रीतुलसीवैकुण्ठपुरमाभाति परमकल्याणमनन्त- विभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशि- समष्ट्याकारं चिदानन्दमयानेकप्राकारविशेषैः परिवेष्टितममितबोधानन्दाचलोपरिस्थितं बोधानन्द- तरङ्गिण्याः प्रवाहैरतिमङ्गलं निरतिशयानन्दैरनन्त- वृन्दावनैरतिशोभितमखिलपवित्राणां परमपवित्रं चिद्रूपैरनन्तनित्यमुक्तैरभिव्याप्तमानन्दमयानन्त- विमानजलैरलङ्कृतममिततेजोराश्यन्तर्गतदिव्यतेजोराशि- विशेषमुपासकस्त्वेवमाकारं तुलसीवैकुण्ठं प्रविश्य तदन्तर्गतदिव्यविमानोपरिस्थितां सर्वपरिपूर्णस्य महाविष्णोः सर्वाङ्गेषु विहारिणीं निरतिशयसौन्दर्यलावण्याधिदेवतां बोधानन्दमयैरनन्तनित्यपरिजनैः परिषेवितां श्रीसखीं तुलसीमेवं लक्ष्मीं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य स्तुत्वा स्तोत्रविशेषैस्तयाभिपूजित- स्तदनुज्ञातश्चोपर्युपरिगत्वा परमानन्दतरङ्गिण्यास्तीरे गत्वा तत्र परितोऽवस्थिताञ्छुद्धबोधानन्दमयाननन्त- वैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य तत्रैत्यैश्चिद्रूपैः पुराणपुरुषैश्चाभिपूजितस्ततो गत्वागत्वा ब्रह्मवनेषु दिव्यगन्धानन्दपुष्पवृष्टिभिः समन्वितेषु दिव्य- मङ्गलालयेषु निरतिशयानन्दामृतसागरेष्वमिततेजो- राश्याकारेषु कल्लोलवनसंकुलेषु ततोऽनन्तशुद्धबोध- विमानजालसंकुलानन्दाचलश्रोणीषूपासकस्तत उपर्युपरि गत्वा विमानपरम्परास्वनन्ततेजःपर्वतराजिष्वेवं क्रमेण प्राप्य विद्यानन्दमयोः सन्धिं तत्रानदतरङ्गिण्याः प्रवाहेषु स्नात्वा बोधानन्दवनं प्राप्य शुद्धबोधपरमानन्दानन्दाकारवनं सन्ततामृतपुष्पवृष्टिभिः परिवेष्टितं परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममङ्गलैः परमकौतुकमपरिच्छिन्नानन्द- सागराकारं क्रीडानन्दपर्वतैरभिशोभितं तन्मध्ये च शुद्धबोधानन्दवैकुण्ठं यदेव ब्रह्मविद्यापादवैकुण्ठं सहस्रानन्दप्राकारैः समुज्ज्वलति।
अनन्तानन्दविमानजालसंकुलमनन्तबोधसौध- विशेषैरभितोऽनिशं प्रज्वलन्तं क्रीडानन्तमण्डप- विशेषैर्विशेषितं बोधानन्दमयानन्तपरमच्छत्र- ध्वजचामरवितानतोरणैरलङ्कृतं परमानन्दव्यूहै- र्नित्यमुक्तैरभितस्ततमनन्तदिव्यतेजःपर्वतसमष्ट्याकार- मपरिच्छिन्नानन्तशुद्धबोधानन्तमण्डलं वाचामगोचरानन्दब्रह्मतेजोराशिमण्डलमाखण्डलविशेषं शुद्धानन्दसमष्टिमण्डलविशेषमखण्डचिद्घनानन्द- विशेषमेवं तेजोमण्डलविधं बोधानन्दवैकुण्ठमुपासकः प्रविश्य तत्रत्यैः सर्वैरभिपूजितः परमानन्दाचलोपर्यखण्ड- बोधविमानं प्रज्वलति।
तदभ्यन्तरे चिन्मयासनं विराजते।
तदुपरि विभात्यखण्डानन्दतेजोमण्डलम्।
तदभ्यन्तरे समासीन- मादिनारायणं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैः सुसंपूज्य पुष्पाञ्जलिं समर्प्य स्तुत्वा स्तोत्रविशेषैः स्वरूपेणावस्थितमुपासकमवलोक्य तमुपासक- मादिनारायणः स्वसिंहासने सुसंस्थाप्य तद्वैकुण्ठवासिभिः सर्वैः समन्वितः समस्तमोक्षसाम्राज्यपट्टाभिषेकमुद्दिश्य मन्त्रपूतैरपासकमानन्दकलशैरभिषिच्य दिव्यमङ्गल- महावाद्यपुरःसरं विविधोपचारैरभ्यर्च्य मूर्तिमद्भिः सर्वैः स्वचिह्नैरलङ्कृत्य प्रदक्षिणनमस्कारान्विधाय त्वं ब्रह्मासि अहं ब्रह्मास्मि आवयोरन्तरं न विद्यते त्वमेवाहम् अहमेवत्वम् इत्यभिधायेत्युक्त्वादिनारायणस्तिरोदधे तदेत्युपनिषत्॥
इत्याथर्वणमहानारायणोपनिषदि परममोक्षमार्गस्वरूपनिरूपणं
नाम षष्ठोध्यायः॥६॥