देहल्यां मेट्रोयाने / राधावल्लभः त्रिपाठी
(प्रथमदृश्यम्)
(अस्य दृश्यस्य जवनिकापसारणम् विंशशताब्द्याः अवसानकाले कस्याञ्चित् तिथौ भवति)
अहं कौतुकवशात् चित्तरञ्जनाय एव मेट्रोयाने प्रविष्टः
सुचिक्कणं नवीनं यानम्
सर्वं रमणीयं नवीनं भव्यम्
विश्वस्मिन् विश्वे क्वचिदेव लभ्येत
एतादृशी मेट्रोवाहनव्यवस्था
इति गर्वमनुभवन्
अहं सुखेन आसन उपविष्टः
भूयो भूयो धन्यवादान् व्याहरामि स्म मनसि
श्रीधरन्वर्याय मेट्रोमानुषाय
यस्य प्रसादात् मेट्रोयाने उपविश्य
अनुभवामो वयम् -
पेरिसे वर्तामह उत वियनायाम् इति।
अथ च स्वशिरांसि उन्नामयामः ....
(द्वितीयं दृश्यम्)
(अस्य दृश्यस्य जवनिकापसारणम् एकविंशशताब्द्याः प्रथमे दशके कस्याञ्चित् तिथौ भवति)
मेट्रोयाने सर्वं सुखावहम्
गमनागमनं पूर्वतोSधिकं,
तथापि जनसम्मर्दो नास्ति।
देहल्याः परिपुष्टाः स्वस्था युवानः युवत्यश्च
आसनेषु उपविष्टाः
प्रविष्टे मयि
वरिष्ठनागरिकेभ्य आरक्षित आसने उपविष्टः
कश्चन युवा सादरमुत्थाय
उपविशत्वङ्कल इत्युदीर्य
मह्यं आसनं ददौ।
अहं सुखेनोपविष्टः।
(तृतीयं दृश्यम्)
(अस्य दृश्यस्य जवनिकापसारणम् एकविंशशताब्द्याः द्वितीये दशके कस्याञ्चित् तिथौ भवति)
अतितरां जनसम्मर्दसङ्कुले
विघट्यमानेषु अंसेषु
प्रविष्टोS हम्
मेट्रोयाने।
युवानः चलदूरवाणीषु संसक्ताः
आसनानि स्वायत्तीकृत्य उपविष्टाः
वरिष्ठनागरिकाणां कृते आरक्षिते आसने उपविष्टं
युवानमहमपेक्षया पश्यामि
स मयि उपेक्षया त्वरितां दृष्टिं निपात्य
चलदूरवाण्यां मुखं निमज्जयति
अहं वीतराग इव तिष्ठामि....
(चतुर्थं दृश्यम्)
(अस्य दृश्यस्य जवनिकापसारणं भविष्यत्काले एकविंशशताब्द्याः तृतीये दशके कस्याञ्चित् तिथौ भविष्यति)
प्रायः प्रवेशावसरो नास्ति
मादृशस्य वृद्धस्य कृते
तथापि गन्तव्यं तु वर्तत एव
कथञ्चित् विघट्यमानेषु अंसेषु
स्थगितः प्रेरितः एतस्ततो नीतः विनीतः
अहं यानखण्डके प्रविष्ट एव
चलदूरवाण्यामासक्ताः
युवानः
मां दृष्ट्वा हसन्ति
तेषु एक आह
अरे अयं वृद्ध
एतावतापि जीवति
कियत् कालमयं भारभूतस्तिष्ठेत्...