भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

नर्मदा स्तुतिः / शास्त्री नित्यगोपाल कटारे

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

आगच्छन्तु नर्मदा तीरे ।
कलकल कलिलं प्रवहति सलिलं
कुरु आचमनं सुधी रे ।

दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे ।।
आगच्छन्तु नर्मदा तीरे ।

मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे ।
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे ।।
आगच्छन्तु नर्मदा तीरे ।

बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे ।
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे ।।
आगच्छन्तु नर्मदा तीरे ।

गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे ।
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे ।।
आगच्छन्तु नर्मदा तीरे ।