भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

न खलु तद्वाच्यं / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

त्रासो यो वरयातृभिः बहु कृतः कोलाहलाडम्बरैः
यत् सम्बन्धिभिरर्थगृध्नुभिरहो याच्ञा कृता शम्बरैः ।
द्रक्ष्यामस्तनयां तवापि सधमत्कारं च यद् भाषितं
प्रस्थानावसरे च तैर्न खलु तद्वाच्यं वधूबन्धुभिः।।

उत्खातप्रतिरोप्यमाणलतिकातुल्या वधूर्नीयते
आतङ्काकुलितं मनो बहु भयं चास्या भृशं लिम्पति।
आशङ्का हृदये तथा बहुविधा लग्नैतदीये पुन-
स्तन्मातुः करुणं वचो- न खलु तद्वाच्यं वधूबन्धुभिः।।

रक्षन्ती निजगौरवेण सहजं साऽत्मानमेवात्मना
जीवेत् तत्र चिरं गृहे स्वश्वसुरस्यैषा हि नो जीवितम्।
उक्त्वैतावदतः परं यदि वचो जिह्वां क्वचिद् वा स्पृशे-
द्धन्तव्यं स्वमनो, परं न खलु तद्वाच्यं वधूबन्धुभिः।।