अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं ब्रूहीति होवाच।
अथ वसिष्ठवंशजस्य शतभार्यासमेतस्य धनञ्जयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण इति नाम तस्य शुचिस्मिता भार्या।
असौ करुणो भ्रातृवैरमसहमानो भवानीतटस्थं नृसिंहमगमत्।
तत्र देवसमीपेऽन्येनोपायनार्थं समर्पितं जम्बीरफलं गृहीत्वाजिघ्रत्तदा तत्रस्था अशपन्पाप मक्षिको भव वर्षाणां शतमिति।
सोऽपि शापमादाय मक्षिकः सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदा मक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यमारयन्त्सा मृतं पतिमादायारुन्धतीमगमद्भो शुचिस्मिते शोकेनालमरुन्धत्याहामुं जीवयाम्यद्य विभूतिमादायेति एषाग्निहोत्रजं भस्म॥
मृत्युञ्जयेन मन्त्रेण मृतजन्तौ तदाक्षिपत्।
मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिते॥१॥
उदतिष्ठत्तदा जन्तुर्भस्मनोऽस्य प्रभावतः।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत्॥२॥
भस्मैव जीवयामास काश्यां पञ्च तदाभवन्।
देवानपि तथाभूतान्मामप्येतादृशं पुरा॥३॥
तस्मात्तु भस्मनां जन्तुं जीवयामि तदानघे।
इत्येवमुक्त्वा भगवान्दधीचिः समजायत॥४॥
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययाविति॥
इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्यं विधत्त इत्याह।
श्रीगौतमविवाहकाले तामहल्यां दृष्ट्वा सर्वे देवाः कामातुरा
अभवन् तदा नष्टज्ञाना दुर्वाससं गत्वा पप्रच्छुस्तद्दोषं शमयिष्याअमीत्युवाच ततः शतरुद्रेण मन्त्रेण मन्त्रितं भस्म वै पुरा मयापि दत्तं ब्रह्महत्यादि शान्तम्।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम्।
जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः॥५॥
शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः।
निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने॥६॥
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम्।
अस्य भस्मनः शक्तिमन्यां शृणु।
एतदेव हरिशङ्करयोर्ज्ञानप्रदम्।
ब्रह्महत्यादि पापनाशकम्।
महाविभूतिदमिति शिववक्षसि स्थितं नखेनादाय प्रणवेनाभिमन्त्र्य गायत्र्या पञ्चाक्षरेणाभिमन्त्र्य हरिर्मस्तकगात्रेषु समर्पयेत्।
तथा हृदि ध्यायस्वेति हरिमुक्त्वा हरः स्वहृदि ध्यात्वा दृष्टो दृष्ट इति शिवमाह।
ततो भस्म भक्षयेति हरिमाह हरस्ततः।
भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा॥७॥
पृष्टेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः।
तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः॥८॥
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात्।
तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान्॥९॥
न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं शरणं गतः॥१०॥
त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम।
भस्मधारणसम्पन्नो मम भक्तो भविष्यति॥११॥
अत एवैषा भूतिर्भूतिकरीत्युक्ता।
अस्य पुरस्ताद्वसव आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वरा याभ्यां सूर्याचन्द्रमसौ पार्श्वयोस्तदेतदृचाभ्युक्तम्।
ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते।
य एतद्बृहज्जाबालं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति।
य एतद्बृहज्जाबालं बालो वा वेद स महान्भवति।
स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति।
मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत।
सप्तद्वीपवती भूभिर्दक्षिणार्थं नावकल्पते।
तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति॥१२॥