भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

भारतम् / कौशल तिवारी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

भारतं नास्ति बहिर्
यद् दृश्यते साकारम्,
वर्तते यस्य
काऽपि सीमा,
यद् विभज्य
खण्डशः कृतं
तथाकथितैः देशभक्तैः
समये-समये
जातिभाषाभौगोलिकांचलाधारेण।
भारतं नास्ति बहिर्
भारतं तु तदेवाऽस्ति
यद् धावति
रुधिरं भूत्वाऽस्माकं
स्वतन्त्रताचराणां शिरासु
स्पन्दति च
हृदयं भूतं
भारतीयानां देहेषु॥