भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

वटतरुः / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

राजमार्गस्य पार्श्वे वटतरुरयमेकाकी तिष्ठति
पूर्वं बहवो वृक्षा आसन्
अभितः परितो निकषा एनम्
सघनं परिवार्य संस्थिताः
तदीया बन्धुजना इव

एकैकशस्ते तं विहाय गताः
राजमार्गस्य विस्तारयोजनायाः क्रियान्वयनकाले
दृष्टस्तेन तेषां स्वबन्धुजनानां निर्घृणो वधः।
हृदि प्रस्तरं निधाय।

नगरेSस्मिन् इतिहासविशारदो मम मित्रं कश्चन निवसति
स एतस्य वटतरोरैतिह्यमित्थं विशदयति -
वटतरुरयं पुरा सहस्रशीर्षा सहस्राक्षः सहस्रचरणः सहस्रबाहुः पुरुष इव बभूव
सहस्रं जनानां कृते सभागारं
स्वच्छस्वच्छायायामयं रचयति स्म,
कदाचिद् ग्रामीणाः
अस्य च्छायायाम् उपविश्य
जल्पन्ति परस्परं, कथाः कथयन्ति चर्चरीं वा गायन्ति
अयं च शृणुते,
जल्पानां कथानां गीतानां च श्रवणलोभेन
देवा अपि क्वचिदवतीर्य
अस्य शाखासु निलीनास्तिष्ठन्ति स्म
दूरादश्रूयन्त
फेरवाणां घूङ्काररवाः
भल्लूकानां थूत्कारध्वनयः
मयूराणामाकुलाः केकाः
कोकिलानां काकलयः
उलूकानां घूत्काराः
अथवा पर्वतानां वक्षांसि विदारयन्तः
गजानां चीत्काराःसिंहानां गर्जनध्वनयो वा
वस्तुतस्ते पक्षिणः पशवः
ग्रामजनानां कथासु ओमिति कथनं कुर्वन्ति स्म
अथवा तेषां गाने
मृदङ्गमार्जनाभिः
मञ्जीरशिञ्जितैर्वा
सङ्गतिं समाचरन्ति स्म।

अथ कदाचित् कश्चिन्महान् गायकः
राजसभाया अकारणाविष्कृतवैरदारुणैः खलैर्निर्वासित
इहागत्य मुहूर्तं विश्रान्तः
अस्यैव वटतरोश्छायायामुपविश्य
भैरवरागमगायत्
तदानीमस्य शाखासु
सहस्रं वीणाः प्रादुर्भूताः,
वटश्चायं
रागस्य सङ्गतौ
ताः सहस्रवीणा वादयन्
दशसहस्रशाखाबाहून् कम्पयन्
आन्दोलितो बभूव
अद्भुतं दृश्यमिदमवलोकयितुं
द्युलोकादन्तरिक्षं यावदागता देवाः
पुष्पाणि वर्षन्ति स्म।
उषसि अहमेतेन मार्गेण क्वचिद्भ्रमणाय यामि
वटतरुमेनं धूलिधूसरं निर्विण्णं च विलोकयामि।
तरुष्वपि स्मृतिर्भवति
इति केचन सम्प्रति मन्यन्ते
अपि नाम स्मरन् स्याद् वटतरुरयम्
पूर्वं परितःप्रसृतानां वृक्षाणां..... स्वबन्धूनाम्?
पूर्वमेनं कलचुङ्कृतिभिः गुञ्जयतां विहगानाम्?
तेषां श्वापदानां
ये अस्य परिसरे अनदन्?
तस्य गायकस्य वा
यदीयगानसङ्गतौ
अनेन वीणासहस्रं वादितम्?

ताः कथा येन इतिहासविदा मित्रेण कथिताः
स एव सम्प्रति कथावशेषतां यातः।

अत्र कदाचित् पुरा गहनः कान्तारः स्यात्
सम्प्रति काङ्क्रीटकान्तारः प्रसरीसर्ति
सम्प्रति अत्र फेरवा रवान् न कुर्वन्ति,
भल्लूकानां थूत्कृतयो न सरन्ति,
न श्रूयन्ते मयूराणाम् आकुलाः केकाध्वनयः
कोकिलानां काकल्यः श्रवणेS मृतं न निषिञ्चन्ति,
उलूकानां घूत्कारास्तु विच्छिन्नाभ्रविलायं विलीनाः,
पर्वतानां वक्षांसि विदारयन्तो
न गुञ्जन्ति गजानां चीत्काराः, सिंहानां गर्जनध्वनयो वा
तेषां स्थाने
सायरनस्वराः
वाहनानाम् इञ्जिननादाः कर्णकुहरं विदारयन्ति।

अधुना नास्ति कापि आशा
यदेनं वटवृक्षं परितः
मुग्धाः पादपशिशवो
हसिष्यन्ति,
किलकिलां करिष्यन्ति
पुष्पाणि;
स्मयिष्यन्ते किसलयाः।
कियान् कालो जातः
यदनेन पुष्पाणि न दृष्टानि
स स्वयं पुष्पायितः स्यात्
इति तु आशैव दुराशा वर्तते।
पुष्पाणां तु कथैव दूरे आस्ताम्
इदानीं नवपल्लवसम्भारा अपि
नैतस्मिन् रोहन्ति
पुराणजीर्णानि पत्राणि अस्य
सन्ति यद्यपि तथाविधान्येव।

न केवलम्
वटवृक्षमिमं परितः प्रसृतं
गहनं वनं विलुप्तम्,
ता वनग्रामटिका अपि लोपं याताः
याभ्यः समेत्य
ग्रामीणा जल्पन्ति स्म परस्परं, कथाः कथयन्ति स्म
चर्चरीं वा गायन्ति स्म।

गतास्ते पक्षिणः
ये अस्य सहस्रशाखासु सायं समेत्य
स्वीयैः कलचुङ्कृतिभिः
सहस्रतन्त्रीर्वीणा इह झङ्कारयन्ति स्म।
तेषां नितरां दीनानां तपस्विनामेव कार्मण्यमिदमासीत्
यदयं वटवृक्षः किंवदन्तीवृक्षः कदाचित् सञ्जातः।
इदानीं ताः किंवदन्त्योऽपि
शुष्कपत्राणीव निपतिताः
तासां मर्मरध्वनिरपि
न श्रूयते सम्प्रति।
सम्प्रति किंवदन्तीरहितः
एकाकी तिष्ठति
अयं वटवृक्षः।

एकदा
कश्चन नेता
वटतरुमेनं निकषा चत्वरे सामूहिकसभायां समागतः
भाषणं कृतवान्
अरे पश्यन्तु
एनं वटवृक्षं परितो न किमपि रोहति
यतो ह्ययं तु शोषकः
केवलमात्मन एव पोषकः
एतादृशानां वटवृक्षाणां नाशः करणीयः
पश्यन्तु कियत् स्थानमनेन वृथापुष्टेन हस्तितम्
अस्मिन् स्थाने अस्माकं प्रियनेतुः
श्रीमतः शीकामुरामहोदयस्य प्रतिमा स्यात्
वटतरुर्मूकः खिन्नश्च सर्वं शृणुते
इति मे प्रतीयाय।

नेता तु भाषणं कृत्वा
मन्त्रिमण्डलस्य उपवेशनमाहूतवान्
वटतरुं निकृत्य तस्य स्थाने
शीकामुरामहोदयस्य प्रतिमा स्थाप्येति प्रस्तावः
तत्र अङ्गीकृतः,
अथ अपरे एनं प्रस्तावं न सेहिरे
ते उच्चन्यायालये याचिकां ददुः
प्रतिमास्थापना स्थगिता भवत्विति।
उच्चन्यायालयेन च स्थगनादेशोऽदीयत।

अथ प्रभाते वृत्तपत्रे
शीकामुरामहोदयस्य प्रतिमास्थापनस्थगनवार्ता मया पठिता
अनन्तरं च प्रातर्भ्रमणाय विनिर्गतः
मया दृष्टं वटवृक्षो
विहसति।