विवेकचूडामणि / श्लोक संख्या १०१-१५० / आदि शंकराचार्य
अन्धत्वमन्दत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्षुषः।
बाधिर्यमूकत्वमुखास्तथैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः॥ १०१॥
उच्छ्वासनिःश्वासविजृम्भणक्षुत्
प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः।
प्राणादिकर्माणि वदन्ति तज्ञाः
प्राणस्य धर्मावशनापिपासे॥ १०२॥
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि।
अहमित्यभिमानेन तिष्ठत्याभासतेजसा॥ १०३॥
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम्।
सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते॥ १०४॥
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये।
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः॥ १०५॥
आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः
तत आत्मा सदानन्दो नास्य दुःखं कदाचन॥ १०६॥
यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते।
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति॥ १०७॥
अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते॥ १०८॥
सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो।
साङ्गाप्यनङ्गा ह्युभयात्मिका नो
महाद्भुतानिर्वचनीयरूपा॥ १०९॥
शुद्धाद्वयब्रह्मविभोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा।
रजस्तमःसत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः॥ ११०॥
विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी।
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः॥ १११॥
कामः क्रोधो लोभदम्भाद्यसूया
अहंकारेर्ष्यामत्सराद्यास्तु घोराः।
धर्मा एते राजसाः पुम्प्रवृत्तिः
यस्मादेषा तद्रजो बन्धहेतुः॥ ११२॥
एषावृतिर्नाम तमोगुणस्य
शक्तिर्मया वस्त्ववभासतेऽन्यथा।
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रवणस्य हेतुः॥ ११३॥
प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम्।
भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः॥ ११४॥
अभावना वा विपरीतभावना
असंभावना विप्रतिपत्तिरस्याः।
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम्॥ ११५॥
अज्ञानमालस्यजडत्वनिद्रा
प्रमादमूढत्वमुखास्तमोगुणाः।
एतैः प्रयुक्तो नहि वेत्ति किंचिन्
निद्रालुवत्स्तम्भवदेव तिष्ठति॥ ११६॥
सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते।
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम्॥ ११७॥
मिश्रस्य सत्त्वस्य भवन्ति धर्माः
त्वमानिताद्या नियमा यमाद्याः।
श्रद्धा च भक्तिश्च मुमुक्षता च
दैवी च सम्पत्तिरसन्निवृत्तिः॥ ११८॥
विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति॥ ११९॥
अव्यक्तमेतत्त्रिगुणैर्निरुक्तं
तत्कारणं नाम शरीरमात्मनः।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः॥ १२०॥
सर्वप्रकारप्रमितिप्रशान्तिः
बीजात्मनावस्थितिरेव बुद्धेः।
सुषुप्तिरेतस्य किल प्रतीतिः
किंचिन्न वेद्मीति जगत्प्रसिद्धेः॥ १२१॥
देहेन्द्रियप्राणमनोऽहमादयः
सर्वे विकारा विषयाः सुखादयः।
व्योमादिभूतान्यखिलं न विश्वं
अव्यक्तपर्यन्तमिदं ह्यनात्मा॥ १२२॥
माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम्।
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्॥ १२३॥
अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः।
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते॥ १२४॥
अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः।
अवस्थात्रयसाक्षी संपञ्चकोशविलक्षणः॥ १२५॥
यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु।
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम्॥ १२६॥
यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन।
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम्॥ १२७॥
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन।
अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम्॥ १२८॥
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः।
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव॥ १२९॥
अहङ्कारादिदेहान्ता विषयाश्च सुखादयः।
वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा॥ १३०॥
एषोऽन्तरात्मा पुरुषः पुराणो
निरन्तराखण्डसुखानुभूतिः।
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति॥ १३१॥
अत्रैव सत्त्वात्मनि धीगुहायां
अव्याकृताकाश उशत्प्रकाशः।
आकाश उच्चै रविवत्प्रकाशते
स्वतेजसा विश्वमिदं प्रकाशयन्॥ १३२॥
ज्ञाता मनोऽहंकृतिविक्रियाणां
देहेन्द्रियप्राणकृतक्रियाणाम्।
अयोऽग्निवत्ताननुवर्तमानो
न चेष्टते नो विकरोति किंचन॥ १३३॥
न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः।
विलीयमानेऽपि वपुष्यमुष्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम्॥ १३४॥
प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निर्विशेषः।
विलसति परमात्मा जाग्रदादिष्ववस्था
स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः॥ १३५॥
नियमितमनसामुं त्वं स्वमात्मानमात्मन्य्
अयमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनिमरणतरङ्गापारसंसारसिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः॥ १३६॥
अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः
प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः।
येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या
पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत्॥ १३७॥
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा।
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे॥ १३८॥
अखण्डनित्याद्वयबोधशक्त्या
स्फुरन्तमात्मानमनन्तवैभवम्।
समावृणोत्यावृतिशक्तिरेषा
तमोमयी राहुरिवार्कबिम्बम्॥ १३९॥
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति।
ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति॥ १४०॥
महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया।
अपारे संसरे विषयविषपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः॥ १४१॥
भानुप्रभासंजनिताभ्रपङ्क्तिः
भानुं तिरोधाय विजृम्भते यथा।
आत्मोदिताहंकृतिरात्मतत्त्वं
तथा तिरोधाय विजृम्भते स्वयम्॥ १४२॥
कवलितदिननार्थे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझंझावायुरुग्रो यथैतान्।
अविरततमसात्मन्यावृते मूढबुद्धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः॥ १४३॥
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम्॥ १४४॥
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओऽसवः शाखिकाः।
अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः॥ १४५॥
अज्ञानमूलोऽयमनात्मबन्धो
नैसर्गिकोऽनादिरनन्त ईरितः।
जन्माप्ययव्याधिजरादिदुःख
प्रवाहपातं जनयत्यमुष्य॥ १४६॥
नास्त्रैर्न शस्त्रैरनिलेन वन्हिना
छेत्तुं न शक्यो न च कर्मकोटिभिः।
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मञ्जुना॥ १४७॥
श्रुतिप्रमाणैकमतेः स्वधर्म
निष्ठा तयैवात्मविशुद्धिरस्य।
विशुद्धबुद्धेः परमात्मवेदनं
तेनैव संसारसमूलनाशः॥ १४८॥
कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति।
निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम्॥ १४९॥
तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम्।
तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः॥ १५०॥