Last modified on 28 जुलाई 2014, at 21:04

विवेकचूडामणि / श्लोक संख्या १५१-२०० / आदि शंकराचार्य

पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः॥ १५१॥

आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा।
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्॥ १५२॥

मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्यञ्चमात्मानमसङ्गमक्रियम्।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यः स मुक्तः॥ १५३॥

देहोऽयमन्नभवनोऽन्नमयस्तु कोशः
चान्नेन जीवति विनश्यति तद्विहीनः।
त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः॥ १५४॥

पूर्वं जनेरधिमृतेरपि नायमस्ति
जातक्षणः क्षणगुणोऽनियतस्वभावः।
नैको जडश्च घटवत्परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता॥ १५५॥

पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात्।
तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः॥ १५६॥

देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः।
सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः॥ १५७॥

शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः।
कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः॥ १५८॥

त्वङ्मांसमेदोऽस्थिपुरीषराशा
वहंमतिं मूढजनः करोति।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थ भूतम्॥ १५९॥

देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहंधीः।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि॥ १६०॥

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदोऽस्थिपुरीषराशौ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्ति परमां भजस्व॥ १६१॥

देहेन्द्रियादावसति भ्रमोदितां
विद्वानहं तां न जहाति यावत्।
तावन्न तस्यास्ति विमुक्तिवार्ताप्य्
अस्त्वेष वेदान्तनयान्तदर्शी॥ १६२॥

छायाशरीरे प्रतिबिम्बगात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे।
यथात्मबुद्धिस्तव नास्ति काचिज्
जीवच्छरीरे च तथैव मास्तु॥ १६३॥

देहात्मधीरेव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम्।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा॥ १६४॥

कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं
प्राणो भवेत्प्राणमयस्तु कोशः।
येनात्मवानन्नमयोऽनुपूर्णः
प्रवर्ततेऽसौ सकलक्रियासु॥ १६५॥

नैवात्मापि प्राणमयो वायुविकारो
गन्तागन्ता वायुवदन्तर्बहिरेषः।
यस्मात्किंचित्क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किंचन नित्यं परतन्त्रः॥ १६६॥

ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः।
संज्ञादिभेदकलनाकलितो बलीयांस्
तत्पूर्वकोशमभिपूर्य विजृम्भते यः॥ १६७॥

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया।
जाज्वल्यमानो बहुवासनेन्धनैः
मनोमयाग्निर्दहति प्रपञ्चम्॥ १६८॥

न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः।
तस्मिन्विनष्टे सकलं विनष्टं
विजृम्भितेऽस्मिन्सकलं विजृम्भते॥ १६९॥

स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या
भोक्त्रादिविश्वं मन एव सर्वम्।
तथैव जाग्रत्यपि नो विशेषः
तत्सर्वमेतन्मनसो विजृम्भणम्॥ १७०॥

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किंचित्सकलप्रसिद्धेः।
अतो मनःकल्पितेव पुंसः
संसार एतस्य न वस्तुतोऽस्ति॥ १७१॥

वायुनानीयते मेधः पुनस्तेनैव नीयते।
मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते॥ १७२॥

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन।
वैरस्यमत्र विषवत्सुवुधाय पश्चाद्
एनं विमोचयति तन्मन एव बन्धात्॥ १७३॥

तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने।
बन्धस्य हेतुर्मलिनं रजोगुणैः
मोक्षस्य शुद्धं विरजस्तमस्कम्॥ १७४॥

विवेकवैराग्यगुणातिरेकाच्
छुद्धत्वमासाद्य मनो विमुक्त्यै।
भवत्यतो बुद्धिमतो मुमुक्षोस्
ताभ्यां दृढाभ्यां भवितव्यमग्रे॥ १७५॥

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः॥ १७६॥

मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः।
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम्॥ १७७॥

असङ्गचिद्रूपममुं विमोह्य
देहेन्द्रियप्राणगुणैर्निबद्ध्य।
अहंममेति भ्रमयत्यजस्रं
मनः स्वकृत्येषु फलोपभुक्तिषु॥ १७८॥

अध्यासदोषात्पुरुषस्य संसृतिः
अध्यासबन्धस्त्वमुनैव कल्पितः।
रजस्तमोदोषवतोऽविवेकिनो
जन्मादिदुःखस्य निदानमेतत्॥ १७९॥

अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः।
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्॥ १८०॥

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा।
विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते॥ १८१॥

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः॥ १८२॥

मनोमयो नापि भवेत्परात्मा
ह्याद्यन्तवत्त्वात्परिणामिभावात्।
दुःखात्मकत्वाद्विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः॥ १८३॥

बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः।
विज्ञानमयकोशः स्यात्पुंसः संसारकारणम्॥ १८४॥

अनुव्रजच्चित्प्रतिबिम्बशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः।
ज्ञानक्रियावानहमित्यजस्रं
देहेन्द्रियादिष्वभिमन्यते भृशम्॥ १८५॥

अनादिकालोऽयमहंस्वभावो
जीवः समस्तव्यवहारवोढा।
करोति कर्माण्यपि पूर्ववासनः
पुण्यान्यपुण्यानि च तत्फलानि॥ १८६॥

भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्
नायाति निर्यात्यध ऊर्ध्वमेषः।
अस्यैव विज्ञानमयस्य जाग्रत्
स्वप्नाद्यवस्थाः सुखदुःखभोगः॥ १८७॥

देहादिनिष्ठाश्रमधर्मकर्म
गुणाभिमानः सततं ममेति।
विज्ञानकोशोऽयमतिप्रकाशः
प्रकृष्टसान्निध्यवशात्परात्मनः।
अतो भवत्येष उपाधिरस्य
यदात्मधीः संसरति भ्रमेण॥ १८८॥

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः।
कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः॥ १८९॥

स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्म्यदोषेण परं मृषात्मनः।
सर्वात्मकः सन्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव॥ १९०॥

उपाधिसंबन्धवशात्परात्मा
ह्युपाधिधर्माननुभाति तद्गुणः।
अयोविकारानविकारिवन्हिवत्
सदैकरूपोऽपि परः स्वभावात्॥ १९१॥

शिष्य उवाच

भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः।
तदुपाधेरनादित्वान्नानादेर्नाश इष्यते॥ १९२॥

अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद॥ १९३॥

श्रीगुरुरुवाच

सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु।
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना॥ १९४॥

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः।
न घटेतार्थसंबन्धो नभसो नीलतादिवत्॥ १९५॥

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य
प्रत्यग्बोधानन्दरूपस्य बुद्धेः।
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तुस्वभावात्॥ १९६॥

यावद्भ्रान्तिस्तावदेवास्य सत्ता
मिथ्याज्ञानोज्जृम्भितस्य प्रमादात्।
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत्॥ १९७॥

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते।
उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि॥ १९८॥

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम्॥ १९९॥

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः।
यद्बुद्ध्युपाधिसंबन्धात्परिकल्पितमात्मनि॥ २००॥