विवेकचूडामणि / श्लोक संख्या १-५० / आदि शंकराचार्य
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम्।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम्॥ १॥
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम्।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते॥ २॥
दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम्।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः॥ ३॥
लब्ध्वा कथंचिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्।
यस्त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात्॥ ४॥
इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम्॥ ५॥
वदन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः।
आत्मैक्यबोधेन विनापि मुक्तिः
न सिध्यति ब्रह्मशतान्तरेऽपि॥ ६॥
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः॥ ७॥
अतो विमुक्त्यै प्रयतेत्विद्वान्
संन्यस्तबाह्यार्थसुखस्पृहः सन्।
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा॥ ८॥
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया॥ ९॥
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये।
यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः॥ १०॥
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः॥ ११॥
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा।
भ्रान्तोदितमहासर्पभयदुःखविनाशिनी॥ १२॥
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः।
न स्नानेन न दानेन प्राणायमशतेन वा॥ १३॥
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः।
उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः॥ १४॥
अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम्॥ १५॥
मेधावी पुरुषो विद्वानुहापोहविचक्षणः।
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः॥ १६॥
विवेकिनो विरक्तस्य शमादिगुणशालिनः।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता॥ १७॥
साधनान्यत्र चत्वारि कथितानि मनीषिभिः।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति॥ १८॥
आदौ नित्यानित्यवस्तुविवेकः परिगम्यते।
इहामुत्रफलभोगविरागस्तदनन्तरम्
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम्॥ १९॥
ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः।
सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः॥ २०॥
तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः।
देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि॥ २१॥
विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः।
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते॥ २२॥
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके।
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा॥ २३॥
सहनं सर्वदुःखानामप्रतीकारपूर्वकम्।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते॥ २४॥
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम्।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते॥ २५॥
सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा।
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम्॥ २६॥
अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान्।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता॥ २७॥
मन्दमध्यमरूपापि वैराग्येण शमादिना।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम्॥ २८॥
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते।
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः॥ २९॥
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः।
मरौ सलीलवत्तत्र शमादेर्भानमात्रता॥ ३०॥
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी।
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते॥ ३१॥
स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः।
उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः
उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम्॥ ३२॥
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम्॥ ३३॥
तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः॥ ३४॥
स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या॥ ३५॥
दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यद्यदहं न जाने॥ ३६॥
शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः।
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यानपि तारयन्तः॥ ३७॥
अयं स्वभावः स्वत एव यत्पर
श्रमापनोदप्रवणं महात्मनाम्।
सुधांशुरेष स्वयमर्ककर्कश
प्रभाभितप्तामवति क्षितिं किल॥ ३८॥
ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय।
संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः॥ ३९॥
कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः।
जाने न किञ्ज्चित्कृपयाव मां प्रभो
संसारदुःखक्षतिमातनुष्व॥ ४०॥
तथा वदन्तं शरणागतं स्वं
संसारदावानलतापतप्तम्।
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या
दद्यादभीतिं सहसा महात्मा॥ ४१॥
विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे।
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात्॥ ४२॥
मा भैष्ट विद्वंस्तव नास्त्यपायः
संसारसिन्धोस्तरणेऽस्त्युपायः।
येनैव याता यतयोऽस्य पारं
तमेव मार्गं तव निर्दिशामि॥ ४३॥
अस्त्युपायो महान् कश्चित्संसारभयनाशनः।
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि॥ ४४॥
वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम्।
तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु॥ ४५॥
श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः
मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबन्धात्॥ ४६॥
अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबन्धस्तत एव संसृतिः।
तयोर्विवेकोदितबोधवन्हिः
अज्ञानकार्यं प्रदहेत्समूलम्॥ ४७॥
शिष्य उवाच
कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात्॥ ४८॥
को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम्॥ ४९॥
श्रीगुरुवाच
धन्योऽसि कृतकृत्योऽसि पावित ते कुलं त्वया।
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि॥ ५०॥