भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ३०१-३५० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

यो वा पुरे सोऽहमिति प्रतीतो
बुद्ध्या प्रकॢप्तस्तमसातिमूढया।
तस्यैव निःशेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः॥ ३०१॥

ब्रह्मानन्दनिधिर्महाबलवताहंकारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः।
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः॥ ३०२॥

यावद्वा यत्किंचिद्विषदोषस्फूर्तिरस्ति चेद्देहे।
कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै॥ ३०३॥

अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या।
प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम्॥ ३०४॥

अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि।
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम्॥ ३०५॥

सदैकरूपस्य चिदात्मनो विभोर्
आनन्दमूर्तेरनवद्यकीर्तेः।
नैवान्यथा क्वाप्यविकारिणस्ते
विनाहमध्यासममुष्य संसृतिः॥ ३०६॥

तस्मादहंकारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत्प्रतीतम्।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम्॥ ३०७॥

ततोऽहमादेर्विनिवर्त्य वृत्तिं
संत्यक्तरागः परमार्थलाभात्।
तूष्णीं समास्स्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः॥ ३०८॥

समूलकृत्तोऽपि महानहं पुनः
व्युल्लेखितः स्याद्यदि चेतसा क्षणम्।
संजीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा॥ ३०९॥

निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया।
स एव संजीवनहेतुरस्य
प्रक्षीणजम्बीरतरोरिवाम्बु॥ ३१०॥

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात्।
अतोऽर्थसन्धानपरत्वमेव
भेदप्रसक्त्या भवबन्धहेतुः॥ ३११॥

कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते।
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत्॥ ३१२॥

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना।
वर्धते सर्वथा पुंसः संसारो न निवर्तते॥ ३१३॥

संसारबन्धविच्छित्त्यै तद्द्वयं प्रदहेद्यतिः।
वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः॥ ३१४॥

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः।
त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा॥ ३१५॥

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः।
सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते॥ ३१६॥

क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः।
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते॥ ३१७॥

सद्वासनास्फूर्तिविजृम्भणे सति
ह्यसौ विलीनाप्यहमादिवासना।
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा॥ ३१८॥

तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे।
तथाद्वयानन्दरसानुभूतौ
न वास्ति बन्धो न च दुःखगन्धः॥ ३१९॥

दृश्यं प्रतीतं प्रविलापयन्सन्
सन्मात्रमानन्दघनं विभावयन्।
समाहितः सन्बहिरन्तरं वा
कालं नयेथाः सति कर्मबन्धे॥ ३२०॥

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन।
प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः॥ ३२१॥

न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः।
ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा॥ ३२२॥

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः।
विक्षेपयति धीदोषैर्योषा जारमिव प्रियम्॥ ३२३॥

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम्॥ ३२४॥

लक्ष्यच्युतं चेद्यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत्ततस्ततः।
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा॥ ३२५॥

विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान्।
सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम्॥ ३२६॥

अतः प्रमादान्न परोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ।
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः॥ ३२७॥

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः।
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते॥ ३२८॥

संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम्।
जीवतो यस्य कैवल्यं विदेहे स च केवलः
यत्किंचित्पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः॥ ३२९॥

यदा कदा वापि विपश्चिदेष
ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम्।
पश्यत्यथामुष्य भयं तदैव
यद्वीक्षितं भिन्नतया प्रमादात्॥ ३३०॥

श्रुतिस्मृतिन्यायशतैर्निषिद्धे
दृश्येऽत्र यः स्वात्ममतिं करोति।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा॥ ३३१॥

सत्याभिसंधानरतो विमुक्तो
महत्त्वमात्मीयमुपैति नित्यम्।
मिथ्याभिसन्धानरतस्तु नश्येद्
दृष्टं तदेतद्यदचौरचौरयोः॥ ३३२॥

यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्।
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम्॥ ३३३॥

बाह्यानुसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोऽधिकाम्।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम्॥ ३३४॥

बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम्।
तस्मिन्सुदृष्टे भवबन्धनाशो
बहिर्निरोधः पदवी विमुक्तेः॥ ३३५॥

कः पण्डितः सन्सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी।
जानन्हि कुर्यादसतोऽवलम्बं
स्वपातहेतोः शिशुवन्मुमुक्षुः॥ ३३६॥

देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात्॥ ३३७॥

अन्तर्बहिः स्वं स्थिरजङ्गमेषु
ज्ञात्वात्मनाधारतया विलोक्य।
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यः स्थित एष मुक्तः॥ ३३८॥

सर्वात्मना बन्धविमुक्तिहेतुः
सर्वात्मभावान्न परोऽस्ति कश्चित्।
दृश्याग्रहे सत्युपपद्यतेऽसौ
सर्वात्मभावोऽस्य सदात्मनिष्ठया॥ ३३९॥

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः।
संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः॥ ३४०॥

सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः।
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः॥ ३४१॥

आरूढशक्तेरहमो विनाशः
कर्तुन्न शक्य सहसापि पण्डितैः।
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानन्तरानन्तभवा हि वासनाः॥ ३४२॥

अहंबुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात्।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः॥ ३४३॥

विक्षेपशक्तिविजयो विषमो विधातुं
निःशेषमावरणशक्तिनिवृत्त्यभावे।
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणमात्मनि च स्वभावात्
निःसंशयेन भवति प्रतिबन्धशून्यो
विक्षेपणं नहिं तदा यदि चेन्मृषार्थे॥ ३४४॥

सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य दृग्दृश्यपदार्थतत्त्वम्।
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्तु पुनर्न संसृतिः॥ ३४५॥

परावरैकत्वविवेकवन्हिः
दहत्यविद्यागहनं ह्यशेषम्।
किं स्यात्पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुषोऽस्य॥ ३४६॥

आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः।
मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः॥ ३४७॥

एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात्।
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा॥ ३४८॥

अयोऽग्नियोगादिव सत्समन्वयान्
मात्रादिरूपेण विजृम्भते धीः।
तत्कार्यमेतद्द्वितयं यतो मृषा
दृष्टं भ्रमस्वप्नमनोरथेषु॥ ३४९॥

ततो विकाराः प्रकृतेरहंमुखा
देहावसाना विषयाश्च सर्वे।
क्षणेऽन्यथाभावितया ह्यमीषाम्
असत्त्वमात्मा तु कदापि नान्यथा॥ ३५०॥