विवेकचूडामणि / श्लोक संख्या ३५१-४०० / आदि शंकराचार्य
नित्याद्वयाखण्डचिदेकरूपो
बुद्ध्यादिसाक्षी सदसद्विलक्षणः।
अहंपदप्रत्ययलक्षितार्थः
प्रत्यक्सदानन्दघनः परात्मा॥ ३५१॥
इत्थं विपश्चित्सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या।
ज्ञात्वा स्वमात्मानमखण्डबोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति॥ ३५२॥
अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा।
समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्॥ ३५३॥
त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे।
प्रविलसति समाधावस्य सर्वो विकल्पो
विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या॥ ३५४॥
शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम्।
तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः॥ ३५५॥
समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वमहं चिदात्मनि।
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्ष्यकथाभिधायिनः॥ ३५६॥
उपाधिभेदात्स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः।
तस्मादुपाधेर्विलयाय विद्वान्
वसेत्सदाकल्पसमाधिनिष्ठया॥ ३५७॥
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते॥ ३५८॥
क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्नलित्वं ह्यलिभावमृच्छति।
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया॥ ३५९॥
अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति।
समाधिनात्यन्तसुसूक्ष्मवृत्या
ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः॥ ३६०॥
यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं समृच्छति।
तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम्॥ ३६१॥
निरन्तराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा।
तदा समाधिः सविकल्पवर्जितः
स्वतोऽद्वयानन्दरसानुभावकः॥ ३६२॥
समाधिनानेन समस्तवासना
ग्रन्थेर्विनाशोऽखिलकर्मनाशः।
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात्॥ ३६३॥
श्रुतेः शतगुणं विद्यान्मननं मननादपि।
निदिंध्यासं लक्षगुणमनन्तं निर्विकल्पकम्॥ ३६४॥
निर्विकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम्।
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत्॥ ३६५॥
अतः समाधत्स्व यतेन्द्रियः सन्
निरन्तरं शान्तमनाः प्रतीचि।
विध्वंसय ध्वान्तमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन॥ ३६६॥
योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः।
निराशा च निरीहा च नित्यमेकान्तशीलता॥ ३६७॥
एकान्तस्थितिरिन्द्रियोपरमणे हेनुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना।
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः॥ ३६८॥
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व॥ ३६९॥
देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः।
यैर्यैर्वृत्तेःसमायोगस्ततद्भावोऽस्य योगिनः॥ ३७०॥
तन्निवृत्त्या मुनेः सम्यक्सर्वोपरमणं सुखम्।
संदृश्यते सदानन्दरसानुभवविप्लवः॥ ३७१॥
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते।
त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया॥ ३७२॥
बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः।
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः॥ ३७३॥
वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम्।
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति॥ ३७४॥
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः॥ ३७५॥
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक्।
एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे॥ ३७६॥
आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृतिस्
त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः॥ ३७७॥
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम्।
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम्॥ ३७८॥
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम्।
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम्॥ ३७९॥
एष स्वयंज्योतिरशेषसाक्षी
विज्ञानकोशो विलसत्यजस्रम्।
लक्ष्यं विधायैनमसद्विलक्षणम्
अखण्डवृत्त्यात्मतयानुभावय॥ ३८०॥
एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया।
उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम्॥ ३८१॥
अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन्।
उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत्॥ ३८२॥
विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे।
शनैः शनैर्निश्चलतामुपानयन्
पूर्णं स्वमेवानुविलोकयेत्ततः॥ ३८३॥
देहेन्द्रियप्राणमनोऽहमादिभिः
स्वाज्ञानकॢप्तैरखिलैरुपाधिभिः।
विमुक्तमात्मानमखण्डरूपं
पूर्णं महाकाशमिवावलोकयेत्॥ ३८४॥
घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर्विमुक्तमेकम्।
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकमेव॥ ३८५॥
ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम्॥ ३८६॥
यत्र भ्रान्त्या कल्पितं तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम्।
भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं
रज्जुस्तद्वद्विश्वमात्मस्वरूपम्॥ ३८७॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन॥ ३८८॥
अन्तः स्वयं चापि बहिः स्वयं च
स्वयं पुरस्तात्स्वयमेव पश्चात्।
स्वयं ह्यावाच्यां स्वयमप्युदीच्यां
तथोपरिष्टात्स्वयमप्यधस्तात्॥ ३८९॥
तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा।
चिदेव देहाद्यहमन्तमेतत्
सर्वं चिदेवैकरसं विशुद्धम्॥ ३९०॥
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः।
पृथक्किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया॥ ३९१॥
क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः।
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये॥ ३९२॥
आकाशवन्निर्मलनिर्विकल्पं
निःसीमनिःस्पन्दननिर्विकारम्।
अन्तर्बहिःशून्यमनन्यमद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम्॥ ३९३॥
वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः।
ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम्॥ ३९४॥
जहि मलमयकोशेऽहंधियोत्थापिताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात्।
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ॥ ३९५॥
शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः।
यदात्मानं शुद्धं कलयति शिवाकारमचलम्
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि॥ ३९६॥
स्वात्मन्यारोपिताशेषाभासर्वस्तुनिरासतः।
स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम्॥ ३९७॥
समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते यतः॥ ३९८॥
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ३९९॥
द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ४००॥