भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ४०१-४५० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ४०१॥

तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम्।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः॥ ४०२॥

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत्।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः॥ ४०३॥

न ह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे।
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम्॥ ४०४॥

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।
इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते॥ ४०५॥

अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम्।
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः॥ ४०६॥

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि॥ ४०७॥

किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम्।
निरवधिगगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४०८॥

प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसं बन्धदूरम्।
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४०९॥

अजरममरमस्ताभाववस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम्।
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४१०॥

समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम्।
विच्छिन्द्धि बन्धं भवगन्धगन्धितं
यत्नेन पुंस्त्वं सफलीकुरुष्व॥ ४११.

सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम्।
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने॥ ४१२॥

छायेव पुंसः परिदृश्यमान्
माभासरूपेण फलानुभूत्या।
शरीरमाराच्छववन्निरस्तं
पुनर्न संधत्त इदं महात्मा॥ ४१३॥

सततविमलबोधानन्दरूपं समेत्य
त्यज जडमलरूपोपाधिमेतं सुदूरे।
अथ पुनरपि नैष स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं पल्पते कुत्सनाय॥ ४१४॥

समूलमेतत्परिदाह्य वन्हौ
सदात्मनि ब्रह्मणि निर्विकल्पे।
ततः स्वयं नित्यविशुद्धबोधा
नन्दात्मना तिष्ठति विद्वरिष्ठः॥ ४१५॥

प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक्।
न तत्पुनः पश्यति तत्त्ववेत्ता
(आ)नन्दात्मनि ब्रह्मणि लीनवृत्तिः॥ ४१६॥

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित्॥ ४१७॥

संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः।
बहिरन्तः सदानन्दरसास्वादनमात्मनि॥ ४१८॥

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम्।
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम्॥ ४१९॥

यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम्।
निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः॥ ४२०॥

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम्।
यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम्
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति॥ ४२१॥

विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं तदीक्षितम्।
तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ
नोचेद्विदां दृष्टफलं किमस्मात्॥ ४२२॥

अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः।
अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः॥ ४२३॥

वासनानुदयो भोग्ये वैरागस्य तदावधिः।
अहंभावोदयाभावो बोधस्य परमावधिः
लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा॥ ४२४॥

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर्
अन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत्।
स्वप्नालोकितलोकवज्जगदिदं पश्यन् क्वचिल्लब्धधीर्
आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि॥ ४२५॥

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः॥ ४२६॥

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते
सुस्थितासौ भवेद्यस्य स्थितप्रज्ञः स उच्यते॥ ४२७॥

यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः।
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते॥ ४२८॥

लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते॥ ४२९॥

शान्तसंसारकलनः कलावानपि निष्कलः।
यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते॥ ४३०॥

वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि।
अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम्॥ ४३१॥

अतीताननुसन्धानं भविष्यदविचारणम्।
औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम्॥ ४३२॥

गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम्॥ ४३३॥

इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयात्मनि।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम्॥ ४३४॥

ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः।
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम्॥ ४३५॥

देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः।
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः॥ ४३६॥

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात्।
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः॥ ४३७॥

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते॥ ४३८॥

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः।
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः॥ ४३९॥

साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः।
समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः॥ ४४०॥

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ।
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः॥ ४४१॥

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः॥ ४४२॥

प्राचीनवासनावेगादसौ संसरतीति चेत्।
न सदेकत्वविज्ञानान्मन्दी भवति वासना॥ ४४३॥

अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः॥ ४४४॥

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात्॥ ४४५॥

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते।
फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित्॥ ४४६॥

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम्।
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्॥ ४४७॥

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम्।
सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा॥ ४४८॥

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा।
न श्लिष्यति च यत्किंचित्कदाचिद्भाविकर्मभिः॥ ४४९॥

न नभो घटयोगेन सुरागन्धेन लिप्यते।
तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते॥ ४५०॥