भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ४५१-५०० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति।
अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत्॥ ४५१॥

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ।
न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम्॥ ४५२॥

प्राब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्षंचितागामिनाम्।
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम्॥ ४५३॥

उपाधितादात्म्यविहीनकेवल
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः।
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबन्धकथेव जाग्रतः॥ ४५४॥

न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे।
करोत्यहन्तां ममतानिदन्तां
किन्तु स्वयं तिष्ठति जागरेण॥ ४५५॥

न तस्य मिथ्यार्थसमर्थनेच्छा
न संग्रहस्तज्जगतोऽपि दृष्टः।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम्॥ ४५६॥

तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते।
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादौ॥ ४५७॥

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम्।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः॥ ४५८॥

अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक्।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना॥ ४५९॥

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः॥ ४६०॥

शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि।
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः॥ ४६१॥

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि।
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्॥ ४६२॥

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः।
न तु देहादिसत्यत्वबोधनाय विपश्चिताम्॥ ४६३॥

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६४॥

सद्गनं चिद्घनं नित्यमानन्दघनमक्रियम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६५॥

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६६॥

अहेयमनुपादेयमनादेयमनाश्रयम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६७॥

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६८॥

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४६९॥

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम्।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥ ४७०॥

निरस्तरागा विनिरस्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः।
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृतिमात्मयोगात्॥ ४७१॥

भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं विचार्य।
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः॥ ४७२॥

समाधिना साधुविनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा।
निःसंशयं सम्यगवेक्षितश्चेच्
छ्रुतः पदार्थो न पुनर्विकल्प्यते॥ ४७३॥

स्वस्याविद्याबन्धसंबन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ।
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम्॥ ४७४॥

बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुदादयः।
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम्॥ ४७५॥

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा।
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया॥ ४७६॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम्।
संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि॥ ४७७॥

वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च।
अखण्डरूपस्थितिरेव मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम्॥ ४७८॥

इति गुरुवचनाच्छ्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या।
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत्॥ ४७९॥

किंचित्कालं समाधाय परे ब्रह्मणि मानसम्।
उत्थाय परमानन्दादिदं वचनमब्रवीत्॥ ४८०॥

बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाधिगत्या।
इदं न जानेऽप्यनिदं न जाने
किं वा कियद्वा सुखमस्त्यपारम्॥ ४८१॥

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते
स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम्।
अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनानन्दात्मना निर्वृतम्॥ ४८२॥

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत्।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम्॥ ४८३॥

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम्।
अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे॥ ४८४॥

न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम्।
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः॥ ४८५॥

नमो नमस्ते गुरवे महात्मने
विमुक्तसङ्गाय सदुत्तमाय।
नित्याद्वयानन्दरसस्वरूपिणे
भूम्ने सदापारदयाम्बुधाम्ने॥ ४८६॥

यत्कटाक्षशशिसान्द्रचन्द्रिका
पातधूतभवतापजश्रमः।
प्राप्तवानहमखण्डवैभवा
नन्दमात्मपदमक्षयं क्षणात्॥ ४८७॥

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात्।
नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात्॥ ४८८॥

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः।
प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः॥ ४८९॥

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः।
शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः॥ ४९०॥

द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम्।
नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा॥ ४९१॥

नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम्।
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम्॥ ४९२॥

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम्।
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम्॥ ४९३॥

नारायणोऽहं नरकान्तकोऽहं
पुरान्तकोऽहं पुरुषोऽहमीशः।
अखण्डबोधोऽहमशेषसाक्षी
निरीश्वरोऽहं निरहं च निर्ममः॥ ४९४॥

सर्वेषु भूतेष्वहमेव संस्थितो
ज्ञानात्मनान्तर्बहिराश्रयः सन्।
भोक्ता च भोग्यं स्वयमेव सर्वं
यद्यत्पृथग्दृष्टमिदन्तया पुरा॥ ४९५॥

मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः।
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्॥ ४९६॥

स्थुलादिभावा मयि कल्पिता भ्रमाद्
आरोपितानुस्फुरणेन लोकैः।
काले यथा कल्पकवत्सराय
णर्त्वादयो निष्कलनिर्विकल्पे॥ ४९७॥

आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढैरतिदोषदूषितैः।
नार्द्रिकरोत्यूषरभूमिभागं
मरीचिकावारि महाप्रवाहः॥ ४९८॥

आकाशवल्लेपविदूरगोऽहं
आदित्यवद्भास्यविलक्षणोऽहम्।
अहार्यवन्नित्यविनिश्चलोऽहं
अम्भोधिवत्पारविवर्जितोऽहम्॥ ४९९॥

न मे देहेन संबन्धो मेघेनेव विहायसः।
अतः कुतो मे तद्धर्मा जाक्रत्स्वप्नसुषुप्तयः॥ ५००॥