भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ५०१-५५० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते।
स एव जीर्यन्म्रियते सदाहं
कुलाद्रिवन्निश्चल एव संस्थितः॥ ५०१॥

न मे प्रवृत्तिर्न च मे निवृत्तिः
सदैकरूपस्य निरंशकस्य।
एकात्मको यो निविडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते॥ ५०२॥

पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः।
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः॥ ५०३॥

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा।
न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम्॥ ५०४॥

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम्।
अविकारमुदासीनं गृहधर्माः प्रदीपवत्॥ ५०५॥

रवेर्यथा कर्मणि साक्षिभावो
वन्हेर्यथा दाहनियामकत्वम्।
रज्जोर्यथारोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे॥ ५०६॥

कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम्।
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वयंज्योतिरनीदृगात्मा॥ ५०७॥

चलत्युपाधौ प्रतिबिम्बलौल्यम्
औपाधिकं मूढधियो नयन्ति।
स्वबिम्बभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति॥ ५०८॥

जले वापि स्थले वापि लुठत्वेष जडात्मकः।
नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा॥ ५०९॥

कर्तृत्वभोक्तृत्वखलत्वमत्तता
जडत्वबद्धत्वविमुक्ततादयः।
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन् परे ब्रह्मणि केवलेऽद्वये॥ ५१०॥

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि।
किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति॥ ५११॥

अव्यक्तादिस्थूलपर्यन्तमेतत्
विश्व यत्राभासमात्रं प्रतीतम्।
व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१२॥

सर्वाधारं सर्ववस्तुप्रकाशं
सर्वाकारं सर्वगं सर्वशून्यम्।
नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१३॥

यत्प्रत्यस्ताशेषमायाविशेषं
प्रत्यग्रूपं प्रत्ययागम्यमानम्।
सत्यज्ञानानन्तमानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१४॥

निष्क्रियोऽस्म्यविकारोऽस्मि
निष्कलोऽस्मि निराकृतिः।
निर्विकल्पोऽस्मि नित्योऽस्मि
निरालम्बोऽस्मि निर्द्वयः॥ ५१५॥

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः।
केवलाक्षण्डबोधोऽहमानन्दोऽहं निरन्तरः॥ ५१६॥

स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात्।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु॥ ५१७॥

महास्वप्ने मायाकृतजनिजरामृत्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम्।
अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया
प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो॥ ५१८॥

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः।
यदेतद्विश्वरूपेण राजते गुरुराज ते॥ ५१९॥

इति नतमवलोक्य शिष्यवर्यं
समधिगतात्मसुखं प्रबुद्धतत्त्वम्।
प्रमुदितहृदयं स देशिकेन्द्रः
पुनरिदमाह वचः परं महात्मा॥ ५२०॥

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि।
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्॥ ५२१॥

कस्तां परानन्दरसानुभूति
मृत्सृज्य शून्येषु रमेत विद्वान्।
चन्द्रे महाल्हादिनि दीप्यमाने
चित्रेन्दुमालोकयितुं क इच्छेत्॥ ५२२॥

असत्पदार्थानुभवेन किंचिन्
न ह्यस्ति तृप्तिर्न च दुःखहानिः।
तदद्वयानन्दरसानुभूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया॥ ५२३॥

स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम्।
स्वानन्दमनुभुञ्जानः कालं नय महामते॥ ५२४॥

अखण्डबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरप्रकल्पनम्।
तदद्वयानन्दमयात्मना सदा
शान्तिं परामेत्य भजस्व मौनम्॥ ५२५॥

तूष्णीमवस्था परमोपशान्तिः
बुद्धेरसत्कल्पविकल्पहेतोः।
ब्रह्मात्मन ब्रह्मविदो महात्मनो
यत्राद्वयानन्दसुखं निरन्तरम्॥ ५२६॥

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम्।
विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः॥ ५२७॥

गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा।
यथेच्छया वेसेद्विद्वानात्नारामः सदा मुनिः॥ ५२८॥

न देशकालासनदिग्यमादि
लक्ष्याद्यपेक्षाप्रतिबद्धवृत्तेः।
संसिद्धतत्त्वस्य महात्मनोऽस्ति
स्ववेदने का नियमाद्यवस्था॥ ५२९॥

घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते।
विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः॥ ५३०॥

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते।
न देशं नापि कालं न शुद्धिं वाप्यपेक्षते॥ ५३१॥

देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम्।
तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम्॥ ५३२॥

भानुनेव जगत्सर्वं भासते यस्य तेजसा।
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम्॥ ५३३॥

वेदशास्त्रपुराणानि भूतानि सकलान्यपि।
येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत्॥ ५३४॥

एष स्वयंज्योतिरनन्तशक्तिः
आत्माप्रमेयः सकलानुभूतिः।
यमेव विज्ञाय विमुक्तबन्धो
जयत्ययं ब्रह्मविदुत्तमोत्तमः॥ ५३५॥

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः॥ ५३६॥

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः।
तथैव विद्वान् रमते निर्ममो निरहं सुखी॥ ५३७॥

चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने।
वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही
संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि॥ ५३८॥

विमानमालम्ब्य शरीरमेतद्
भुनक्त्यशेषान्विषयानुपस्थितान्।
परेच्छया बालवदात्मवेत्ता
योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः॥ ५३९॥

दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः।
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम्॥ ५४०॥

कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः।
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः॥ ५४१॥

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः।
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सततपरमानन्दसुखितः॥ ५४२॥

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः।
नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः॥ ५४३॥

अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि।
शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः॥ ५४४॥

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित्।
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे॥ ५४५॥

स्थूलादिसंबन्धवतोऽभिमानिनः
सुखं च दुःखं च शुभाशुभे च।
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाप्यशुभं फलं वा॥ ५४६॥

तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः।
ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम्॥ ५४७॥

तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम्।
पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात्॥ ५४८॥

अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति।
इतस्ततश्चाल्यमानो यत्किंचित्प्राणवायुना॥ ५४९॥

स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम्।
दैवेन नीयते देहो यथाकालोपभुक्तिषु॥ ५५०॥