भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ५५१-५८० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः॥ ५५१॥

नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष
नैवापयुङ्क्त उप्दर्शनलक्षणस्थः।
नैव क्रियाफलमपीषदवेक्षते स
स्वानन्दसान्द्ररसपानसुमत्तचित्तः॥ ५५२॥

लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः॥ ५५३॥

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः।
उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम्॥ ५५४॥

शैलूषो वेषसद्भावा भावयोश्च यथा पुमान्।
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः॥ ५५५॥

यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात्।
ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम्॥ ५५६॥

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णाद्वयानन्दमयात्मना सदा।
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसविट्पिण्डविसर्जनाय॥ ५५७॥

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः।
अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः॥ ५५८॥

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे।
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम्॥ ५५९॥

पत्रस्य पुष्पस्य फलस्य नाशवद्
देहेन्द्रियप्राणधियां विनाशः।
नैवात्मनः स्वस्य सदात्मकस्या
नन्दाकृतेर्वृक्षवदस्ति चैषः॥ ५६०॥

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम्।
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्॥ ५६१॥

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः।
प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु॥ ५६२॥

पाषाणवृक्षतृणधान्यकडङ्कराद्या
दग्धा भवन्ति हि मृदेव यथा तथैव।
देहेन्द्रियासुमन आदि समस्तदृश्यं
ज्ञानाग्निदग्धमुपयाति परात्मभावम्॥ ५६३॥

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि।
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते॥ ५६४॥

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम्।
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम्॥ ५६५॥

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले।
संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः॥ ५६६॥

एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम्।
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः॥ ५६७॥

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः।
अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः॥ ५६८॥

मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः।
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ॥ ५६९॥

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे।
नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम्
यद्यस्त्यद्वैतहानिः स्याद्द्वैतं नो सहते श्रुतिः॥ ५७०॥

बन्धञ्च मोक्षञ्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति।
दृगावृतिं मेघकृतां यथा रवौ
यतोऽद्वयासङ्गचिदेतदक्षरम्॥ ५७१॥

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि।
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः॥ ५७२॥

अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि।
निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः॥ ५७३॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥ ५७४॥

सकलनिगमचूडास्वान्तसिद्धान्तरूपं
परमिदमतिगुह्यं दर्शितं ते मयाद्य।
अपगतकलिदोषं कामनिर्मुक्तबुद्धिं
स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम्॥ ५७५॥

इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः॥ ५७६॥

गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः।
पावयन्वसुधां सर्वाण्विचचार निरन्तरः॥ ५७७॥

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम्।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये॥ ५७८॥

हितमिदमुपदेशमाद्रियन्तां
विहितनिरस्तसमस्तचित्तदोषाः।
भवसुखविरताः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्षवो ये॥ ५७९॥

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा
खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम्।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य्
एषा शंकरभारती विजयते निर्वाणसंदायिनी॥ ५८०॥

॥इति शंकराचार्यविरचितं विवेकचुडामणि॥

॥ॐ तत्सत्॥