समष्टिः / राधावल्लभः त्रिपाठी
कति कति वीचयः
परस्परं हस्ताहस्ति घट्टिताः
कति आवर्ताः आम्रेडिताः
कति विवर्ता विनिर्मिताः
समेषामेतेषां समष्ट्या
कदाचित्क्वचित् विरचितः -
बुद्बुद एकः।
बुद्बुदस्य जीवनमेव कियत्
वीचीनामावर्तानां विवर्तानां समष्टौ
बुद्बुदो बुभूषति
परन्तु भवति वा न भवति वा
भवत्यपि यदि, क्षणाय तिष्ठति
तिष्ठति च एतैः सर्वैः धारितः
अथ स्फुटति लीयते च।
कदाचित् क्वचित् एवमपि भवति यत्
एकस्मै क्षणाय स्थिते बुद्बुदे
निमेषमात्रं स्वकरैः स्पर्शच्छुरणं विधत्ते रविः
तेन क्षणार्धं विरच्यते बुद्बुदान्तः
सप्तवर्णच्छवि इन्द्रधनुः।
कालस्य अजस्रोऽयं प्रवहति महानदः
अस्मिन् कैस्कैः संयोगैः
विनिर्मितः क्षणं समुत्थितः
बुद्बुद एकोऽहम्।
एकस्य मादृशस्य बुद्बुदस्य जनये
कति धाराधराः प्रवृष्टाः
कति कति धाराः स्यन्दिताः
बुद्बुदस्य कियती मात्रा?
क्षणभङ्गुरं तदीयं जीवनम्।
परमेकस्मिन् क्षणे मयि तिष्ठति
स्मयन्ते प्रसन्ना देवाः।
तेषां स्मितस्य सप्तवर्णच्छविषु
स्पन्दते ममान्तः
क्षणभङ्गुरं जीवनम् पुनरेकस्मै क्षणाय
परन्तु क्षणोSयं
कल्पसहस्राद् विशिष्यते ।