भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

सुनिधिः / बलराम शुक्ल

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

तदीयवदनाकृतिर्न तु हिमांशुबिम्बानुगा
तथापि मम मानसं सततमेतया ह्लादते।
तदीयनयनद्वयं न च सरोजसौन्दर्यवत्
तथापि बलवन्मम भ्रमरमान्तरं कर्षति॥
तदीयकचसंहतिर्न निशया भृशं तुल्यभास्
तथापि मम स्वप्नवज् जगदिहैव शेते सुखम्।
न वाऽतिनिशितासिवत् भवति युग्मकं तद्भ्रुवोस्
तथापि मम संयमस्यकवचं ततो दीर्यते॥
तदीयमधुराधरौ न खलु बिम्बरागौए परं
मदीयजगतोऽरुणक्षितिजशोभिनौ तावुभौ।
तदीयरदनावली न खलु मुक्तिकामञ्जुलाऽ
नयैव सदने मम द्युतिततिः परं विद्यते॥
तदीयवचनामृतं त्रिदिवसंस्थितं नामृतं
परं तदशनेन मे हृदयमाशु जीवत्यलम्।
प्रतप्तनवकाञ्चनप्रभववर्णपूर्णा न सा
तथापि समवाप्य तां त्रिभुवनैकधन्योऽस्म्यहम्॥