सौन्दर्य लहरी / पृष्ठ - ३ / आदि शंकराचार्य
तडिल्लेखातन्वीं तपनशशि वैश्वानरमयीं ।
निषण्णांषण्णामप्युपरि कमलानां तव कलाम् ॥
महापद्माटव्यां मृदितमलमायेन मनसा ।
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥
भवानित्वं दासे मयि वितरदृष्टिं स करुणा-
मितिस्तोतुंवाञ्छन्कथयति भवानित्वमिति यः ।
तदैवत्वं तस्मै दिशसि निजसायुज्य पदवीम्
मुकुन्द ब्रह्मेन्द्र स्फुटमकुट नीराजितपदाम् ॥२२॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा ।
शरीरार्धं शम्भो रपर मपि शङ्के हृतमभूत् ॥
यदेतत्त्वद्रूपं सकलमरुणाभंत्रिनयनम् ।
कुचाभ्या मानम्रं कुटिल शशि चूडाल मकुटम् ॥२३॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते ।
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ॥
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे ।
भवेत्पूजा पूजा तव चरणयोर्या विरचिता ॥
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे ।
स्थिता ह्येते शश्वन् मुकुलितकरोत्तंस मकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं ।
विनाशं कीनाशो भजति धनदो याति निधनम् ॥
वितन्द्री माहेन्द्री विततिरपि संमीलति दृशां ।
महा संहारेऽस्मिन् विहरति सतित्वत्पतिरसौ ॥२६॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः
प्रणामः संवेशः सुखमखिलमात्मार्पणदशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥२७॥
सुधामप्यास्वाद्य प्रतिभय जरा मृत्यु हरिणीं ।
विपद्यन्ते विश्वे विधिशत मखाद्यादिविषदः ॥
करालं यत्क्ष्वेलं कवलितवतः कालकलना ।
न शम्भोस्तन्मूलं तवजननि ताटङ्क महिमा ॥२८॥
किरिटं वैरिञ्चं परिहर पुरः कैटभ भिदः ।
कठोरे कोटीरे स्खलसि जहि जम्भारि मकुटम् ॥
प्रणम्रे ष्वेतेषु प्रसभमुपयातस्य भवनम् ।
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाऽद्याभिरभितो ।
निषेव्ये नित्ये त्वामहमिति सदा भावतियः ॥
किमाश्चर्यं तस्य त्रिनयन समृद्धिं तृणयतो ।
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥३०॥