सौन्दर्य लहरी / पृष्ठ - ६ / आदि शंकराचार्य
शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्योभीता सरसिरुह सौभाग्य जयिनी
सखीषुस्मेराते मयि जननी दृष्टिः सकरुणा ॥ ५१॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्त प्रशम रस विद्रावण फले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंस कलिके
तवाकर्णाकृष्ट स्मर शर विलासं कलयतः ॥ ५२॥
विभक्तत्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितयमिदमीशान दयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरता-
न्रज: सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
पवित्री कर्तुं नः पशुपतिपराधीन हृदये
दयामित्रैर्नेत्रैररुण धवलश्याम रुचिभिः ।
नदःशोणो गङ्गा तपन तनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधर राजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शंके परिहृत निमेषास्तवदृशः ॥ ५५॥
तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छद-पुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
अरालं ते पाली युगलमग राजन्य तनये
न केषामाधत्ते कुसुमशर कोदण्ड कुतुकम् ।
तिरश्चीनो यत्र श्रवण पथमुल्लङ्घ्य विलस -
न्नङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥
स्फुरद्गण्डा भोग प्रतिफलित ताटङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथ रथम् ।
यमारुह्य द्रुह्यत्यवनि रथमर्केन्दु चरणं
महावीरो मारः प्रमथ पतये सज्जितवते ॥ ५९॥
सरस्वत्याः सूक्तीरमृत लहरी कौशलहरीः
पिबन्त्याःशर्वाणि श्रवण चुलुकाभ्यामविरलम् ।
चमत्कार श्लाघा चलित शिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥