सौन्दर्य लहरी / पृष्ठ - ७ / आदि शंकराचार्य
असौ नासावंशस्तुहिन गिरिवंश ध्वजपटी
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहन्नन्तर्मुक्ताः शिशिरतर निश्वास घटिताः
समृद्ध्यायस्तासां बहिरपि च मुक्तामणिधरः ॥६१॥
प्रकृत्याऽऽरक्तायास्तव सुदतिदन्तच्छद रुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं त्वद्बिम्ब प्रतिफलन रागादरुणितं
तुलामध्यारोढुं कथमिव न लज्जेत कलया ॥६२॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृत लहरीमम्लरुचयः
पिबन्तिस्वच्छन्दं निशिनिशि भृशंकाञ्जिकधिया ॥६३॥
अविश्रान्तं पत्युर्गुणगण कथाऽऽम्रेडन जपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृशद्च्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥६४॥
रणे जित्वा दैत्यानपहृत शिरस्त्रैःकवचिभि-
र्निवृत्तैश्चण्डांश त्रिपुरहरनिर्माल्य विमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदन ताम्बूल कबलाः ॥ ६५॥
विपञ्च्या गायन्ती विविधमपदानं पुररिपो-
स्त्वयाऽऽरब्धे वक्तुं चलति शिरसा साधु वचने ।
तदीयैर्माधुर्यैरपलपित तन्त्री कलरवां
निजांवीणांवाणी निचुलयति चोलेन निभृतम् ॥६६॥
कराग्रेण स्पृष्टं तुहिन गिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपाना कुलतया ।
करग्राह्यं शंभोर्मुखमुकुर वृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनाल श्रियमियम् ।
स्वतःश्वेता कालागुरुबहुल जम्बाल मलिना
मृणाली लालित्यम् वहति यदधो हारलतिका ॥६८॥
गले रेखास्तिस्रो गतिगमक गीतैकनिपुणे
विवाहव्यानद्ध प्रगुण गुणसंख्या प्रतिभुवः ।
विराजन्ते नाना विधमधुर रागाकर भुवां
त्रयाणां ग्रामाणां स्थितिनियम सीमान इवते ॥ ६९॥
मृणाली मृद्वीनां तव भुजलतानां चतसृणाम्
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः संत्रस्यन्प्रथम मथना दन्धकरिपोः
चतुर्णां शीर्षाणां सममभय हस्तार्पण धिया ॥७०॥