सौन्दर्य लहरी / पृष्ठ - 10 / आदि शंकराचार्य
पदन्यासक्रीडा परिचयमिवारब्धु मनस-
श्चरन्तस्ते खेलं भवन कलहंसा न जहति ।
स्वविक्षेपे शिक्षां सुभगमणिमञ्जीर रणित -
च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥
गतास्ते मञ्चत्वं द्रुहिणहरि रुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥९२॥
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभाचित्ते दृशदिव कठोरा कुचतटे ।
भृशं तन्वी मध्ये पृथुरपि वरारोह विषये
जगत्त्रातुंशंभोर्जयतिकरुणा काचिदरुणा ॥ ९३
समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि -
र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः ।
दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्रान्निजहृदयपङ्के रुहमिव ॥९४॥
कलंकः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तवकृते ॥९५॥
पुरारातेरन्तः पुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरल करणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्त स्थितिभिरणिमाऽऽद्याभिरमराः ॥९६॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥९७॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयां ।
तुरीया काऽपित्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥९८॥
समुद्भूत स्थूलस्तन भरमुरश्चारु हसितं
कटाक्षे कन्दर्पाः कतिचन कदम्बद्युतिवपुः ।
हरस्य त्वद्भ्रान्तिं मनसि जनयन्तिस्म विमला
भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥९९॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजन जलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
यदाधत्तेवाणीमुखकमल ताम्बूलरसताम् ॥१००॥