"रघुवंशम् / षोडशः सर्गः / कालिदास" के अवतरणों में अंतर
Sharda suman (चर्चा | योगदान) |
Sharda suman (चर्चा | योगदान) छो (Sharda suman moved page रघुवंशम् / षोडशः सर्गः / कालीदास to रघुवंशम् / षोडशः सर्गः / कालिदास) |
(कोई अंतर नहीं)
|
16:12, 1 जुलाई 2014 के समय का अवतरण
अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रं एषां हि कुलानुसारि॥ १६.१॥
ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः॥ १६.२॥
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां।
सुरद्विपानां इव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः॥ १६.३॥
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः।
कुशः प्रवासस्थकलत्रवेषां अदृष्टपूर्वां वनितां अपश्यथ्॥ १६.४॥
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध॥ १६.५॥
अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः॥ १६.६॥
लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते।
बिभर्षि चाकारं अनिर्वृतानां मृणालिनी हैमं इवोपरागं॥ १६.७॥
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ १६.८॥
तं अब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां मां॥ १६.९॥
वसौकसारां अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या।
समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणां अवस्थां॥ १६.१०॥
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तं उग्रानिलभिन्नमेघं॥ १६.११॥
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणां।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः॥ १६.१२॥
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिं अन्वगच्छथ्।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणां॥ १६.१३॥
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति॥ १६.१६॥
स्तम्भेषु योषित्प्रतियातनानां उत्क्रान्तवर्णक्रमधूसराणां।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः॥ १६.१७॥
कालान्तरश्यामसुधेषु नक्तं इतस्ततो रूढतृणाङ्कुरेषु।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः॥ १६.१८॥
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः॥ १६.१९॥
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः॥ १६.२०॥
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गं अनापनुवन्ति।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि॥ १६.२१॥
तदर्हसीमां वसतिं विसृज्य मां अभ्युपैतुं कुलराजधानीं।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिं॥ १६.२२॥
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणां।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव॥ १६.२३॥
तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतं अभयनन्दन्॥ १६.२४॥
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे॥ १६.२५॥
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी॥ १६.२६॥
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिं।
बभौ बलौघः शशिनोदितेन वेलां उदन्वानिव नीयमानः॥ १६.२७॥
तस्य प्रयातस्य वरूथिनीनां पीडां अपर्याप्तवतीव सोढुं।
वसुंधरा विष्णुपदं द्वितीयं अध्यारुरोहेव रजश्छलेन॥ १६.२८॥
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती।
सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार॥ १६.२९॥
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणां।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वं इयाय नेतुः॥ १६.३०॥
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि॥ १६.३१॥
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः।
व्यलङ्घयद्विन्ध्यं उपायनानि पश्यन्पुलिन्दैरुपपादितानि॥ १६.३२॥
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगां उत्तरतोऽस्य गङ्गां।
अयत्नवालग्व्यजनीबभूवुर्हंसा नभोलङ्घनलोलक्पक्षाः॥ १६.३३॥
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणां।
सुरालयप्राप्तिनिमित्तं अम्भस्त्रैस्रोतसं नौलुलितं ववन्दे॥ १६.३४॥
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणां॥ १६.३५॥
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान्।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः॥ १६.३६॥
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा।
कुलध्वजस्तानि चलध्वजानि निवेशयां आस बली बलानि॥ १६.३७॥
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वाथ्।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितां इवोर्वीं॥ १६.३८॥
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयां आस रघुपवीरः॥ १६.३९॥
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य।
यथार्हं अन्यैरनुजीविलोकं संभावयां आस गृहैस्तदीयैः॥ १६.४०॥
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी॥ १६.४१॥
वसन्स तस्यां वसतौ रघूणां पुराणशोभां अधिरोपितायां।
न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६.४२॥
अथास्य रत्नग्रथितोत्तरीयं एकान्तपाण्डुस्तनलम्बिहारं।
निःश्वासहार्यांशुकं आजगाम घर्मः प्रिया वेषं इवोपदेष्टुं॥ १६.४३॥
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते।
आनन्दशीतं इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज॥ १६.४४॥
प्रवृद्धतापो दिवसोऽतिमात्रं अत्यर्थं एव क्षणदा च तन्वी।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्तां॥ १६.४५॥
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव॥ १६.४६॥
वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यां इवैषां भ्रमरश्चकार॥ १६.४७॥
स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात॥ १६.४८॥
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपं ऋद्धिमन्तः॥ १६.४९॥
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलं अङ्गनानां॥ १६.५०॥
आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभ्वस्य॥ १६.५१॥
मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च।
संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः॥ १६.५२॥
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ।
तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च॥ १६.५३॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः।
विहर्तुं इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव॥ १६.५४॥
स तीरभूमौ विहितोपकार्यां आनायिभिस्तां अपकृष्टनक्रां।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः॥ १६.५५॥
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः॥ १६.५६॥
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी।
नौसंश्रयः पार्श्वगतां किरातीं उपात्तवालव्यजनां बभाषे॥ १६.५७॥
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः।
संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः॥ १६.५८॥
विलुप्तं अन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तं आसां॥ १६.५९॥
एता गुरुश्रोणिपयोधरत्वादात्मानं उद्वोहुढुं अशक्नुवन्त्यः।
गाढाङ्गदैर्बाहुभिरस्पु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते॥ १६.६०॥
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान्॥ १६.६१॥
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु।
पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरोऽपि हारः॥ १६.६२॥
आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानां।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनां॥ १६.६३॥
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानं।
श्रोत्रेषु संमूर्छति रक्तं आसां गीतानुगं वारिमृदङ्गवाद्यं॥ १६.६४॥
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः॥ १६.६५॥
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति॥ १६.६६॥
उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः।
मनोज्ञ एव प्रमदामुखानां अम्भोविहाराकुलितोऽपि वेषः॥ १६.६७॥
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः॥ १६.६८॥
ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किं उतोन्मयूखं॥ १६.६९॥
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तं आयताक्ष्यः प्रणयादसिञ्चन्।
तथागतः सोऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः॥ १६.७०॥
तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां तां।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः॥ १६.७१॥
यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज॥ १६.७२॥
स्नात्वा यथाकामं असौ सदारस्तीरोपकार्यां गतमात्र एव।
दिव्येन शून्यं वलयेन बाहुं उपोढनेपथ्यविधिर्ददर्श॥ १६.७३॥
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्माथ्।
सेहेऽस्य न भ्रंशं अतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः॥ १६.७४॥
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान्।
वन्ध्यश्रमास्ते सरयूं विगाह्य तं ऊचुराम्लानमुखप्रसादाः॥ १६.७५॥
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते।
नागेन लौल्यात्कुमुदेन नूनं उपात्तं अन्तर्ह्रदवासिना तथ्॥ १६.७६॥
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रं॥ १६.७७॥
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः।
रोधांस्यभिघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास॥ १६.७८॥
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः॥ १६.७९॥
विभूषणप्रत्युपहारहस्तं उपस्थितं वीक्ष्य विशांपतिस्तं।
सौपर्णं अस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः॥ १६.८०॥
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषां अङ्कुशं अस्त्रविद्वान्।
मानोनन्तेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे॥ १६.८१॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं त्वां।
सोऽहं कथं नाम तवाचरेयं आराधनीयस्य धृतेर्विभातं॥ १६.८२॥
कराभिघातोत्थितकन्दुकेयं आलोक्य बालातिकुतूहलेन।
जवात्पतज्ज्योतिरिवान्तरिक्षादादत्त जत्राभरणं त्वदीयं॥ १६.८३॥
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन॥ १६.८४॥
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते॥ १६.८५॥
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारं।
संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन॥ १६.८६॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान्गन्धोदग्रं तदनौ ववृषुः पुष्पं आश्चर्यमेघाः॥ १६.८७॥
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तं अपि च कुशः पञ्चमं तक्षकस्य।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालां अवनिं अपरः पौरकान्तः शशास॥१६.८८॥