"सौन्दर्य लहरी / पृष्ठ - १ / आदि शंकराचार्य" के अवतरणों में अंतर
Lalit Kumar (चर्चा | योगदान) |
|||
पंक्ति 41: | पंक्ति 41: | ||
धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः | धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः | ||
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥ | पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥ | ||
+ | |||
+ | सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते | ||
+ | मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे | ||
+ | शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां | ||
+ | भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥ | ||
+ | |||
+ | महीं मूलाधारे कमपि मणिपूरे हुतवहं । | ||
+ | स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥ | ||
+ | मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं । | ||
+ | सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥ | ||
+ | |||
+ | सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः । | ||
+ | प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥ | ||
+ | अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं । | ||
+ | स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥ | ||
</poem> | </poem> |
15:54, 11 अप्रैल 2015 का अवतरण
शिवःशक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् |
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ||
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि |
प्रणन्तुं स्तोतुं वा, कथमकृतपुण्यः प्रभवति ||१||
तनियांसं पांसुं तव चरण-पंकेरुह-भवम् |
विरञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ||
वहत्येनं शौरिः कथमपि सहस्त्रेण शिरसाम् |
हरः संक्षुभ्यैनं भजति भसितोद्धूलन विधिम् ||२||
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी |
जडानां चैतन्य स्तवक मकरन्द श्रुति झरी ||
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ |
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ||३||
त्वदन्यः पाणिभ्यामभयवरदो दैवतगण |
स्त्वमेका नैवासि प्रकटितवरा भित्यभिनया ||
भयात्त्रातुं दातुं फलमपिच वाञ्छासमधिकं |
शरण्ये लोकानां तवहि चरणावेव निपुणौ ॥४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं ।
पुरानारी भूत्वा पुररिपुमपि क्षोभमनयत् ॥
स्मरोऽपित्वां नत्वा रतिनयन लेह्येन वपुषा ।
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखा ।
वसन्त सामन्तो मलयमरुदा योधनरथः ॥
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६||
क्वणत्काञ्चिदामाकरिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं ।
स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥
मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं ।
सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥
सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः ।
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं ।
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥